________________
हितीयः प्रकाशः। सासूयमूचे कपिलाऽप्येवं मा गर्वमुहह। गर्व वहसि चेहेवि ! रम्यतां तत्सुदर्शनः ॥ ८ ॥ व्याजहाराभया देवी साहारमिदं ततः ।। हला ! रमितमेवैनं मया विद्धि सुदर्शनम् ॥ १ ॥ रमणीभिर्विदग्धाभिः कठोरा वनवासिनः । तपस्विनोऽपि रमिताः कोऽसौ मृदुमना रही ॥ २ ॥ रमयामि न यद्येनं प्रविशामि तदाऽनलम् ।। इत्यालपन्त्यावुद्यानं प्रपेदाते क्षणेन ते ॥ ३ ॥ 'तत्रारमयतां खरं नन्दनेऽप्सरसाविव । अभयाकपिले श्रान्ते खं खं धाम गते ततः ॥ ८४ ॥ अथ तत्राभया राजी स्वप्रतिज्ञामजिज्ञपत् । धात्रिका पण्डितां नाम सर्वविज्ञानपण्डिताम् ॥ ५ ॥ पण्डिताऽवोचदाः ! पत्रि ! न युक्तं मन्त्रितं त्वया । अजेऽद्यापि न जानासि धैर्यशक्तिं महात्मनाम् ॥ ८६ ॥ जिनेन्द्रमुनिशुश्रूषानिष्कम्पोकतमानसः । सुदर्शन: खल्बसौ तप्रतिज्ञां धिगिमां तव ॥ ७ ॥ अन्योऽपि श्रावको नित्यं परनारीसहोदरः । किमुच्यते पुनरसौ महासत्त्वशिरोमणिः ॥ ८ ॥ ब्रह्मचर्यधना नित्यं गुरवो यस्य साधवः । कथं कार्येत सोऽब्रह्म गुरुशीलाद्युपासकः ॥ ८ ॥
(१) ग तलाचारमतां-।