Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 7
________________ -प्रदीप गुरुदेवं विना नैव, काश्यां गन्तुच शक्यते । पूर्णरूपेण साहाय्यं, तेषामत्रैव सम्मतम् ॥६॥ साधुछात्रेण साधं च, गुरूणां गमनं शुभम् । गत्वा व्याकरणादीनां, प्रारब्धं पठनं मया ॥७॥ न्यायसाहित्यपाठोऽपि, प्रत्यहं परिजायते । परीक्षां दातुमिच्छापि, जाता गुरुनिदेशतः ॥८॥ पातञ्जलीययोगस्य, पठनं तत्र सम्मतम् । तदर्थ बङ्गदेशीयः, पण्डितोऽपि समानीतः ॥६॥ तेनाऽपि योगशास्त्रं च, पाठितं चारुरूपतः । तत्रापि खलु शङ्कायाः, समाधानं न जायते ॥१०॥ चित्तवृत्तिनिरोधश्च, योगस्य लक्षणं यदि । तदा तु बहुदोषत्वं, प्रदीपे प्रतिपादितम् ॥११॥ अन्यग्रन्थे च शङ्कायाः, समाधानं न विद्यते । तं विना नैव तज्ज्ञानं, नि:शंकं जायते मम ॥१२॥ योगशास्त्रीयटीकानां, सर्वासां प्रविलोकने । कृतं प्रायेण तत्रापि, समाधानं च नो भवेत् ॥१३॥ भगवद्धमचन्द्राणां, सूरोणां योगशास्त्रके। प्रोक्तं शुद्धस्वरूपं च, लक्षणं सूरिणा तदा ॥१४॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 784