________________
-प्रदीप गुरुदेवं विना नैव, काश्यां गन्तुच शक्यते । पूर्णरूपेण साहाय्यं, तेषामत्रैव सम्मतम् ॥६॥ साधुछात्रेण साधं च, गुरूणां गमनं शुभम् । गत्वा व्याकरणादीनां, प्रारब्धं पठनं मया ॥७॥ न्यायसाहित्यपाठोऽपि, प्रत्यहं परिजायते । परीक्षां दातुमिच्छापि, जाता गुरुनिदेशतः ॥८॥ पातञ्जलीययोगस्य, पठनं तत्र सम्मतम् । तदर्थ बङ्गदेशीयः, पण्डितोऽपि समानीतः ॥६॥ तेनाऽपि योगशास्त्रं च, पाठितं चारुरूपतः । तत्रापि खलु शङ्कायाः, समाधानं न जायते ॥१०॥ चित्तवृत्तिनिरोधश्च, योगस्य लक्षणं यदि । तदा तु बहुदोषत्वं, प्रदीपे प्रतिपादितम् ॥११॥ अन्यग्रन्थे च शङ्कायाः, समाधानं न विद्यते । तं विना नैव तज्ज्ञानं, नि:शंकं जायते मम ॥१२॥ योगशास्त्रीयटीकानां, सर्वासां प्रविलोकने । कृतं प्रायेण तत्रापि, समाधानं च नो भवेत् ॥१३॥ भगवद्धमचन्द्राणां, सूरोणां योगशास्त्रके। प्रोक्तं शुद्धस्वरूपं च, लक्षणं सूरिणा तदा ॥१४॥