________________
[४]
योग
मदीयभाग्यदोषेण, मद्ध दये च नागतम् । . अङ्गानां लक्षणं प्रोक्तं, पूर्वपद्धतितः खलु ॥१५॥ अतस्तत्रापि तच्छङ्का, समाधानं न जायते । योगदृष्टौ च योगस्य, स्वरूपं दृष्टिरूपतः ॥१६॥ अष्टदृष्टिस्वरूपेण, अष्टाङ्गस्य निरूपणम् । कृतं विशुद्धभावेन, हरिभद्रेण सूरिणा ॥१७॥ योगविंशतिका ग्रन्थे, अपि तन्नैव दर्शितम् । अतः शङ्का समाधान, कथं ततः प्रजायते ॥१८॥ अपूर्ववर्णनं तत्र, योगस्य नव्यशैलितः। आत्मस्पर्शिभवेज्ज्ञानं, योगदृष्ट्यादि शास्त्रतः १६ पातञ्जलीययोगस्य, शङ्कासमाधिकारिका । एकाऽपि तादृशी टीका न दृष्टा कुत्रचिन्मया ।२०। अन्वेषणे च कर्त्तव्ये, विज्ञजनस्ययोगतः। एका टीका चसम्प्राप्ता, उपाध्यायकृता खलु ॥२१॥ सम्पूर्णभाग्ययोगेन, तट्टीका परिदर्शनम् । संजातं मर्मस्पर्शित्वं, पूर्णरूपेण तत्र वै ॥२२॥
१ पूज्यपादयशोविजयोपाध्यायः