________________
- प्रदीप लक्षणं सुन्दरं तत्र, योगस्य प्रतिपादितम् । निर्दोष सर्वथाशुद्ध, विशुद्धाचारदर्शकम् ॥२३॥ समितिगुप्तिमुख्यत्वव्यापारो यत्र विद्यते । स एव योगधर्मः स्याद्धर्मव्यापारनामतः ॥२४॥ निरवद्यश्च यः कोऽपि, व्यापारो धर्मपोषकः । प्रतिक्रमणसत्पाठपूजासामायिकात्मकः ॥२५॥ सर्वस्मिन् तत्र योगत्वं, योगलक्षणयोगतः । सन्ध्यावन्दनकार्ये च, अन्यथा नैव योगता ॥२६॥ योगस्याऽभावता तत्र, कथं त्वया विधीयते । दशदाडिमवत्सर्वा, निष्फला न कथं भवेत् ॥२७॥ धर्मव्यापाररूपे च, लक्षणे स्वीकृते सति । निर्दोषव्यापृताऽऽख्ये च, लक्षणं घटते खलु ॥२८॥ चित्तवृत्तिनिरोधे वै, लक्षणे नैव शुद्धता। योगांगे नैव कुत्रापि, लक्षणं घटते तथा ॥२६॥ सर्वत्र चित्तवृत्तित्वं, लक्षणे नैवशुद्धिता । प्रायोऽसंभवरूपं तत्, लक्षणं परिकीर्तितम् ॥३०॥ सर्वशब्दत्वसंयोगे, लक्षणे शुद्धता न हि । योगस्य लक्षणं तस्माच्छुद्ध जैननिरूपितम् ॥३१॥