Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 19
________________ शास्त्रार्थकलापरिष्कृतः ताप्राप्तविवेकन्यायेनैकपदार्थनिष्ठानुयोगितानिरूपकाऽपरपदार्थनिष्ठप्रतियोगितानिरूपकसंसर्गवृत्तिशाब्दबोधत्वव्यापकविषयतात्वम् । एवञ्च विषयतामुद्दिश्याकाङ्क्षाप्रयोज्यत्वविचानेनानुमितिस्थलीयसंयोगसंसर्गस्य तादृशविषयतावत्वाऽभावान्नाकाङ्क्षाभास्यत्वम् । किश्च शाब्दबोध इत्यत्र वृत्तित्वं सप्तम्यर्थः, तथाच एकपदार्थानुयोगिकोऽपरपदार्थप्रतियोगिकरशाब्दबृत्तिस्संसर्गस्तु आकाङ्क्षाप्रयोज्यशाब्दबुद्धित्वव्यापकविषयताश्रय इ.त नानुमित्यादिस्थले दोष इति । ननु एकत्वत्वेनैकत्वस्य अपरत्वत्वेनापरत्वस्य सामान्यरूपेण भाने तदुपादानवैयर्थ्यम् , तच्छब्दप्रवेशात् तत्तदेकत्वत्वेनैकत्वस्य तत्तदेकत्वबझेदवत्त्वेनापरत्वस्य प्रवेशेऽननुगमापातः । अयम्भावः, अपरपदस्यार्थो भेदो भेदाश्रयश्च, सोऽपि समभिव्याहृतपदार्थस्यैव ! सच समभिव्याहृतपदार्थत्वावच्छिन्नप्रतियोगिताक आहोस्वित् समभिव्याहृतयत्किञ्चित्पदार्थनिष्ठप्रतियोगिताकः । नाद्यः, तथासत्यप्रसिद्धः । तथाहि नीलो घट इत्यादावेकपदार्थो घटस्तदनुयोगिकाऽभेदसंसर्गो ज्ञातः परन्तु पदार्थत्वावच्छिन्नप्रतियोगिताकभेदाश्रयो नास्ति सर्वे पदार्था एकपदार्थपदेन ग्राख्या भवन्ति इतिनीलेऽपि एकपदार्थत्वस्य सत्त्वादेकपदार्थत्वावच्छिन्नप्रतियोगिताक भेदवन्नीलपदार्थो न ज्ञात इति तत्प्रतियोगिकत्वं संसगें न गतमिति तत्रोद्देश्यतावच्छेदकव्यापकत्वं हेतोरनुपपन्नं स्यात् । नान्न्यः, तथासत्यननुगतस्स्यात् । तथाहि नीलो घट इत्यादौ एकपदार्थो घटस्तन्निष्ठानुयोगितानिरूपकापरपदार्थप्रतियोगितानिरूपकभेदाश्रयो नीलपदार्थस्तत्प्रतियोगिकोऽप्यभेदसंसर्गो ज्ञातः परन्तु राजपुरुष इत्यादावेकपदार्थपदेन राजपदार्थस्य ग्रहणन्न स्यात् । एकपदार्थस्तु नीलो घट इत्यादावेकपदार्थपदेन घटं संगृह्य नष्टः सकृदुचरितश्शब्दस्सकृदयं गमयतीति नियमात् । ननु एकञ्च तत्पदमेकपदम् तस्यार्थ एकपदार्थः अपरञ्च तत्पदमपरपदन्तस्यार्थोऽपरपदार्थ इति विगृह्यानुगतत्वाऽभावो वारयितु शक्यस्तथासत्यपि यदि एकपदत्वावच्छिन्नप्रतियोगिताकभेदवद् यत् पदन्तदर्थनिष्ठप्रतियोगिताकसंसर्गश्चेत्तदाऽप्रसिद्धिर्दुरा सर्वत्रैकपदत्वस्य सत्वात् । नच एकपदनिष्ठप्रतियोगिताकमेदवद् यत्पदन्तदर्थप्रतियोगिक इति, तथासत्यननुगतनिरुक्तदोषस्य दुवारत्वात् । तथाचाननुगतनिरुक्तदोषवारणाय पदार्थविशिष्टस्संसर्ग आकाङ्क्षाभास्यः, पदार्थवैशिष्टयन्तु संसर्गे स्वनिष्ठानुयोगितानिरूपकत्व-स्वेतरपदार्थनिष्ठप्रतियोगितानिरूपकत्वोभयसम्बन्धेन । तथाच न कुत्राऽप्यननुगतत्वदोष इति तात्पर्यात् । नच नीलो घट इत्यादावेवाऽभेदसंसर्गस्य शाब्दबोधे भानन्न स्यात् ? तथाहि-शाब्दबोधे एकपदार्थो घटस्तदनुयोगिकत्वस्यामेदे सत्त्वेऽपि अपरपदार्थप्रतियोगिकस्वन्नास्ति अभेदप्रतीत्या नीलपदकाच्यघटपदवाच्ययोरैक्यात् घटपदार्थापेक्षयाऽपरपदार्थपदेन नीलपदार्थस्य धर्तुमशक्यत्वात् इति वाच्यम् , पदविशिष्टस्संसर्ग आकाङ्क्षाभास्य इति परिष्कारात् । वैशि. स्वार्थनिष्ठानुयोगितानिरूपकत्व-स्वेतरपदार्थनिष्ठप्रतियोगितानिरूपकत्वोभयसम्बन्धेन । स्वं घटपदन्तदर्थनिष्ठा याऽनुयोगिता तन्निरूपकत्वमभेदस्यास्ति, स्वेतरपदन्नीलपदन्तदर्थो नीलपदार्थस्तन्निष्ठा.

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 296