________________
शास्त्रार्थकलापरिष्कृतः ताप्राप्तविवेकन्यायेनैकपदार्थनिष्ठानुयोगितानिरूपकाऽपरपदार्थनिष्ठप्रतियोगितानिरूपकसंसर्गवृत्तिशाब्दबोधत्वव्यापकविषयतात्वम् । एवञ्च विषयतामुद्दिश्याकाङ्क्षाप्रयोज्यत्वविचानेनानुमितिस्थलीयसंयोगसंसर्गस्य तादृशविषयतावत्वाऽभावान्नाकाङ्क्षाभास्यत्वम् । किश्च शाब्दबोध इत्यत्र वृत्तित्वं सप्तम्यर्थः, तथाच एकपदार्थानुयोगिकोऽपरपदार्थप्रतियोगिकरशाब्दबृत्तिस्संसर्गस्तु आकाङ्क्षाप्रयोज्यशाब्दबुद्धित्वव्यापकविषयताश्रय इ.त नानुमित्यादिस्थले दोष इति । ननु एकत्वत्वेनैकत्वस्य अपरत्वत्वेनापरत्वस्य सामान्यरूपेण भाने तदुपादानवैयर्थ्यम् , तच्छब्दप्रवेशात् तत्तदेकत्वत्वेनैकत्वस्य तत्तदेकत्वबझेदवत्त्वेनापरत्वस्य प्रवेशेऽननुगमापातः । अयम्भावः, अपरपदस्यार्थो भेदो भेदाश्रयश्च, सोऽपि समभिव्याहृतपदार्थस्यैव ! सच समभिव्याहृतपदार्थत्वावच्छिन्नप्रतियोगिताक आहोस्वित् समभिव्याहृतयत्किञ्चित्पदार्थनिष्ठप्रतियोगिताकः । नाद्यः, तथासत्यप्रसिद्धः । तथाहि नीलो घट इत्यादावेकपदार्थो घटस्तदनुयोगिकाऽभेदसंसर्गो ज्ञातः परन्तु पदार्थत्वावच्छिन्नप्रतियोगिताकभेदाश्रयो नास्ति सर्वे पदार्था एकपदार्थपदेन ग्राख्या भवन्ति इतिनीलेऽपि एकपदार्थत्वस्य सत्त्वादेकपदार्थत्वावच्छिन्नप्रतियोगिताक भेदवन्नीलपदार्थो न ज्ञात इति तत्प्रतियोगिकत्वं संसगें न गतमिति तत्रोद्देश्यतावच्छेदकव्यापकत्वं हेतोरनुपपन्नं स्यात् । नान्न्यः, तथासत्यननुगतस्स्यात् । तथाहि नीलो घट इत्यादौ एकपदार्थो घटस्तन्निष्ठानुयोगितानिरूपकापरपदार्थप्रतियोगितानिरूपकभेदाश्रयो नीलपदार्थस्तत्प्रतियोगिकोऽप्यभेदसंसर्गो ज्ञातः परन्तु राजपुरुष इत्यादावेकपदार्थपदेन राजपदार्थस्य ग्रहणन्न स्यात् । एकपदार्थस्तु नीलो घट इत्यादावेकपदार्थपदेन घटं संगृह्य नष्टः सकृदुचरितश्शब्दस्सकृदयं गमयतीति नियमात् ।
ननु एकञ्च तत्पदमेकपदम् तस्यार्थ एकपदार्थः अपरञ्च तत्पदमपरपदन्तस्यार्थोऽपरपदार्थ इति विगृह्यानुगतत्वाऽभावो वारयितु शक्यस्तथासत्यपि यदि एकपदत्वावच्छिन्नप्रतियोगिताकभेदवद् यत् पदन्तदर्थनिष्ठप्रतियोगिताकसंसर्गश्चेत्तदाऽप्रसिद्धिर्दुरा सर्वत्रैकपदत्वस्य सत्वात् । नच एकपदनिष्ठप्रतियोगिताकमेदवद् यत्पदन्तदर्थप्रतियोगिक इति, तथासत्यननुगतनिरुक्तदोषस्य दुवारत्वात् । तथाचाननुगतनिरुक्तदोषवारणाय पदार्थविशिष्टस्संसर्ग आकाङ्क्षाभास्यः, पदार्थवैशिष्टयन्तु संसर्गे स्वनिष्ठानुयोगितानिरूपकत्व-स्वेतरपदार्थनिष्ठप्रतियोगितानिरूपकत्वोभयसम्बन्धेन । तथाच न कुत्राऽप्यननुगतत्वदोष इति तात्पर्यात् । नच नीलो घट इत्यादावेवाऽभेदसंसर्गस्य शाब्दबोधे भानन्न स्यात् ? तथाहि-शाब्दबोधे एकपदार्थो घटस्तदनुयोगिकत्वस्यामेदे सत्त्वेऽपि अपरपदार्थप्रतियोगिकस्वन्नास्ति अभेदप्रतीत्या नीलपदकाच्यघटपदवाच्ययोरैक्यात् घटपदार्थापेक्षयाऽपरपदार्थपदेन नीलपदार्थस्य धर्तुमशक्यत्वात् इति वाच्यम् , पदविशिष्टस्संसर्ग आकाङ्क्षाभास्य इति परिष्कारात् । वैशि. स्वार्थनिष्ठानुयोगितानिरूपकत्व-स्वेतरपदार्थनिष्ठप्रतियोगितानिरूपकत्वोभयसम्बन्धेन । स्वं घटपदन्तदर्थनिष्ठा याऽनुयोगिता तन्निरूपकत्वमभेदस्यास्ति, स्वेतरपदन्नीलपदन्तदर्थो नीलपदार्थस्तन्निष्ठा.