________________
१२
.
व्युत्पत्तिवादः या प्रतियोगिता तन्निरूपकत्वमभेदस्येतिसमन्वयः। ननु पचधातुसमभिव्याहारे वि. क्लित्तिव्यापारयोजन्यजनकयोस्सम्बन्धयोराकाङ्क्षाभास्यत्वन्न स्यात् । तथाहि-पचधातोर्विक्लित्तित्वावच्छिन्ने व्यापारत्वावच्छिन्ने च खण्डशश्शक्तिस्तथा च तण्डुलम्पचति चैत्र इत्यादौ विक्लित्तेर्जनकत्वसम्बन्धेन व्यापारेऽन्वयः, तथाच तण्डुलनिष्ठविक्लित्तिजनकव्यापाराश्रयश्चैत्रस्तत्र जनकत्वसम्बन्धस्य स्वार्थनिष्ठानुयोगितानिरूपकत्वेऽपि स्वेतरपदाऽभावादाकाङ्क्षाभास्यत्वन्न स्यात् । एवम्पच्यते चैत्रेण तण्डुल इत्यादी व्यापारस्य विक्लित्तौ जन्यत्वसम्बन्धेनान्वयः, चेत्रवृत्तिव्यापारजन्यविक्लित्याश्रयस्तण्डुलस्तत्राऽप्युक्तयुक्त्या जनकत्वसम्बन्धस्याकाङ्क्षाभास्यत्वन्न स्यात् । नच पचधातो. स्समुदाये एव शक्तिरस्तु नतु खण्डशश्शक्तिः फलावच्छिन्नव्यापार एव शक्य इति न दोष इति वाच्यम् ? नैयायिकमते प्रथमान्तार्थमुख्यविशेष्यकशाब्दबोध इतिनियमास्तण्डु लम्पचतीत्यादौ तादृशबोधे सिद्धेऽपि कर्मप्रत्ययसमभिव्याहारे विक्लित्यनुकूलव्यापारस्य जन्यत्वसम्बन्धेन विक्लित्तावन्वये तादृशबोधो न स्यादिति दोषात् । नच समुदाय एव शक्तिरस्तु कर्मप्रत्यये तु विक्लित्यनुकूलव्यापारस्य जन्यत्वसम्बन्धेन विक्लिसावन्वयेन तण्डुलनिष्ठविक्लित्यनुकूलव्यापारजन्यविक्लित्याश्रयस्तण्डुल इति प्रथमान्तार्थमुख्यविशेष्यको बोधस्स्यादेवेति व च्यम् , शाब्दबोधे विक्लित्तेर्द्विधा भानाsपत्तेः । व्यापारस्य विक्लित्तावन्वये पदार्थः पदार्थेनान्वेति नतु पदार्थेकदेशेनेति न्यायविरोधाच्च । नच व्यापारजन्यविक्लित्तावेव शक्तिरस्तु इति वाच्यम् , कर्तृप्रत्ययसमभिव्याहारे विक्लित्तेर्द्विधा मानादेकदेशान्वयदोषाच्च । न च विक्लित्तिजनकव्यापारे एवास्तु शक्तिरिति वाच्यम् ? कर्मप्रत्ययसमभिव्याहारे पूर्वोक्तदोषस्य जागरूकत्वात् । किञ्चैवम्परिष्कारे राम राम कृष्ण कृष्ण "काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः । प्राप्त वसन्तसमये काकः काकः पिकः पिक" इत्यादावभेदसंसर्गग्रहणन्न स्यात् । एकपदाख्यातार्थकालकृत्योराधेयत्वसम्बन्धस्याकाङ्क्षाभास्यस्य च संग्रहो न स्यात्पदद्वयार्थाभावात् । किञ्च एवशब्दस्य यद्यन्ययोगव्यवच्छेदे शक्तिस्तदा पार्थ एव धनुर्द्धर इत्यादी इतरस्य योगस्सम्बन्धस्तस्य व्यवच्छेदो निवृत्तिरेवञ्च पार्थेतरस्मिन् धनुर्द्धरत्वाऽभावेऽपि इतरपदेन तत्प्राणिनां ग्रहणाऽपत्तौ तन्निवृत्तिनास्तीतिदोषात् । खण्डशश्शक्तिरन्ययोगे व्यवच्छेदे च तत्रान्ययोगपदार्थस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेन व्यवच्छेदपदार्थेऽन्वयस्स आकाङ्क्षाभास्यो न स्यात् स्वेतरपदाऽभावात् इति वाच्यम् , पदार्थविशिष्टस्संसर्ग आकाङ्क्षाभास्य इति कल्पनात् । वै० स्वनिष्ठानुयोगितानिरूपकत्व-स्वेतरनिष्ठप्रतियोगितानिरूपकत्वोभयसम्बन्धेन । तथाच विक्लि
विशेषतया-वाक्यं द्विविधं भवति उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयपरम् उद्देश्यतावच्छेदकसामानाधिकरण्येन विधेयान्वयपरम् । यथा शङ्को लक्ष्मीपतेः पाअजन्यश्वकं सुदर्शनमित्यत्र दि. ष्णुसम्बन्धिशत्वावच्छेदेन विधेयान्वये हार्दम् । नीरूपं स्पर्शवन्मनोऽत्र रूपशुन्यत्वविशिष्ट स्पर्शवत्त्वसामानधिकरण्येनान्वये तात्पर्यम् ।