________________
शास्त्रार्थकलापरिष्कृतः त्तिपदार्थव्यापारपदार्थयोभिन्नत्वात् अन्ययोगपदार्थव्यवच्छेदपदार्थयोभिन्नत्वात् प्रत्युच्चारणं शब्दो भिद्यत इतिन्यायेन कृष्ण कृष्ण इत्यादावपि द्वयोर्भिन्नत्वात् । नच नीलो घट इत्यादावभेदसम्बन्धेन प्रतियोगिन एवानुयोगित्वेन भेदाऽभावः, शक्तिभास्यपदार्थपदार्थतावच्छेदकसंसर्गाणामपि पदार्थविशिष्टत्वापत्तौ व्यापकत्वभङ्गश्चेति वाच्यम् , पदार्थतावच्छेदकविशिष्टस्संसर्ग आकाङ्क्षाभास्य इति तात्पर्यात् । वै० स्वावच्छिन्नानुयोगिता निरूपकत्व-स्वेतरधर्मावच्छिन्नप्रतियोगितानिरूपकत्वैतदुभयसम्बन्धेन । एवञ्च पचधातुसमभिव्याहारे कर्तृप्रत्ययस्थले स्वं व्यापारत्वन्तदितरो धर्मो विक्लित्तित्वन्तन्निष्ठप्रतियोगितानिरूपकत्वसत्त्वात् ! एवन्नीलत्वघटत्वयोभिन्नत्वात्, एवपदस्थले अन्ययोगत्वव्यवच्छेदत्वयोर्भिन्नत्वात्, एवन्तदुच्चारणीभूतकृष्णत्वतदुच्चारणीभूतकृष्णत्वयोभिन्नत्वाद्दोषपुञ्जाऽभावात् । नच सम्पन्नो व्रीहिरित्यादौ व्रीहित्वानुयोगिकैकत्वप्रतियोगिकस्वाश्रयत्वसंसर्गस्य आकाङ्क्षाभास्यत्वन्न स्यात् इति वाच्यम् , स्वाश्रयप्रकृत्यर्थतावच्छेदकवश्वेन स्वाश्रयव्रीहित्ववत्त्वेन बीहावेवान्वयस्वीकारात् । न च राज्ञो. राजेत्यादावसमस्तस्थले स्वत्वसंसर्गस्याकाङ्क्षाभास्यत्वन्न स्यात् स्वत्वस्य राजपदार्थतावच्छेदकधर्मावच्छिन्नानुयोगितानिरूपकत्वेऽपि द्वितीयसम्बन्धो न गतः स्वम्पदार्थतावच्छेदकधर्मो राजत्वम् तदितरधर्मो राजत्वन्नास्ति, तथाच तदितरधर्मावच्छिन्नप्रतियोगितानिरूपकत्वरूपद्वितीयसम्बन्धानवगमात्स्वत्वसम्बन्धावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपितराजत्वावच्छिन्नविशेष्यताकबोधो न स्यादिति वाच्यम् १ प्रकारतावादिगदाधरमते स्वत्वप्रकारकबोधस्यैवाङ्गीकारात् । एवञ्च स्वत्वं षष्ठयर्थः तत्र राजपदार्थस्य निरूपितत्वसम्बन्धेनान्वयः, स्वत्वषष्ठयर्थपदार्थस्य स्वरूपसम्बन्धेन अग्रिमराजपदार्थेऽन्वयः, तथाच निरूपितत्वसम्बन्धावच्छिन्नराजत्वाच्छिन्नप्रकारतानि. रूपितस्वत्वत्वावच्छिन्नविशेष्यत्वावन्छिन्नप्रकारतानिरूपितराजत्वावच्छिन्नविशेष्यताक इति । राजराज इतिसमासस्थले तु राजपदस्य राजस्वामिनि लक्षणयाऽभेदसंसर्गको बोध इति तत्र राजस्वामित्वराजत्वयोभिन्नत्वात् इति । परीक्षालेखप्रकारः ।
___ अथ शास्त्रार्थप्रकारः नच जातिमान् घट इत्यादौ पदार्थतावच्छेदकैक्यादभेदान्वयबोधो न स्यात् इति वाच्यम् , तत्रापि पदार्थतावच्छेदकावच्छेदकभेदस्य सत्त्वात् जातिमत्पदार्थतावच्छेदकावच्छेदकस्य जातित्वस्य घटत्वस्य च भेद प्रसिद्धेः। नच चैत्रस्य गुरुकुलमित्यादौ चैत्रपदार्थस्य निरूपितत्वसम्बन्धेन गुरुत्वेऽन्वउद्देश्यस्वञ्च-विधेयतानिरूपितत्वम् । विषमताविशेषत्वं वा । सम्बन्धविशेषत्वं वा । विधेयत्वञ्च-विशेष्यतावच्छेदकताभिन्नमुख्यविशेष्यतानिरूपितप्रकारस्वम् । विषयताविशेषत्वं वा । सम्बन्धविशेषवं वा ।
चैत्रस्य गुरुकुलमिति--इह चैत्रपदार्थस्य निरूपितत्वसम्बन्धेन गुरुत्वेऽन्वयः, एवञ्च चैत्रनिरू. पितं यद् गुरुत्वन्तादृशगुरुत्ववत् कुलमिति बोधः। गुरुत्वगुरुसमवायो गुरुपदार्थः । तत्र गुरुपदार्थेन