________________
व्युत्पतिवादः यस्तस्याकाक्षाभास्यत्वन्न स्यात् गुरुत्वनिष्ठनिरवच्छिन्नानुयोगितायाः पदार्थतावक्छेदका छन्नत्वाऽभाषादिति वाच्यम् , गुरुत्वस्य जात्यखण्डोपाध्यतिरिक्तत्वेन जात्यखण्डोपाध्यतिरिक्तपदार्थस्य किञ्चिद्धर्मपुरस्कारेणैव भानमिति नियममनुसृत्य गुरुत्वस्य गुरुत्वत्वेनोपस्थितिरिति तयोभिन्नत्वेनादोषात् । नच लघुधर्मसमनियतगुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वनियमात्कम्बुग्रीवादिमान्नास्तीत्यादौ स्ववृत्तिकम्बु ग्रीवादिमत्त्वावच्छिन्नप्रतियोगिताकत्वसंसर्गस्याकाङ्क्षाभास्यत्वन्न स्यादिति वाच्यम् , कम्बुग्रीवादिमत्त्वस्याऽप्यखण्डोपाध्यतिरिक्त त्वेन कम्बुग्रीवादिमत्वत्वेन भानात्तत्र स्वावच्छिन्नप्रतियोगिताकत्वस्यैवाकाक्षाभास्यत्वेन दोषाभावात् । नच 'घटो नास्तीत्यादी घटत्वम्य जातित्वेन स्वरूपतो भानन्नतु घटत्वत्वेन, घटत्वमहाना. मीतिसर्वसिद्धानुव्यवसायदर्शनेन घटत्वपदार्थस्य स्वावच्छिन्नप्रतियोगिताकत्वेनैवान्वय इष्टः । स्ववृत्तिघटत्वावच्छिन्नप्रतियोगितानिरूपकत्वेन वाऽन्वयस्तथाचैतस्याकाङ्क्षाभास्यत्वन्न स्यादिति वाच्यम् १ पदार्थताबाछेदकविशिष्टस्संसर्ग आकाङ्क्षाभास्यः वै० च स्वविशिष्टानुयोगिताकत्वस्वभिन्नपदार्थतावच्छेदकविशिधप्रतियोगिताकत्वोभय. सम्बन्धेन । उभयत्र वैशिष्टयञ्च स्वावच्छिन्नत्व-स्ववृत्तित्वान्यतरसम्बन्धेनेति पूर्वोक्तसर्वस्थले दोषाऽभावात् । _नच पशुपदं लोमवल्लाङ्गूलावच्छिन्ने शक्तमिति लोमलाङ्गूलयोस्संयोगसम्बन्धस्तस्याऽप्याकाङ्क्षाभास्यत्वमनिष्टमापद्येत । नच शक्तिभास्योऽपि कश्चित्सम्बन्ध आकाङ्खाभास्थोऽपि स्यात्को विरोधः । नच सम्बन्धशक्तिस्वीकारो व्यर्थशङ्कयः, आकाङ्क्षायोग्यकालिकादिसम्बन्धनिरासाय तत्तत्संसर्गविशेषनियामकशक्त रेव स्वीका. रात् , एवञ्च न व्यापकत्वमङ्ग इति वाच्यम् ? लोमलाङ्गलयोर्यस्संयोगस्स नाकाङ्क्षाभास्य इति प्रसिद्धव्यवहारप्रतीतिविरोधात् । आकाङ्क्षाभास्याऽभेदादिसंसर्गवत्तात्पर्यव्यवहाराप्तवाक्यादेव विशेषसंसर्गज्ञाने सिद्ध संसगाशे शक्तिस्वीकारवैयापत्तेश्च । ------ --
-- - - - ---- - - -- ------ - कदेशे गुरुरवे चत्रस्यान्वयः, चैत्रस्य गुरुरित्यत्रापि तथा दोषापादनसम्भवे कुलमित्युक्तमेव, चैत्रनिरूपितं यद् गुरुत्वन्तादृशगुरुत्ववान् गुरुरिति प्रकारात् । नच तथा सति गुरुपदार्थ एव चत्रस्यान्व. यश्शक्यते कतुन गुरुत्व इति वाच्यम् , चैत्रपुत्रादावयापत्तः। चैत्रपुत्रस्य यत्किञ्चिदपेक्षया गुरुस्वात् चैत्रसम्बन्धित्वाच्च ।
शाब्दिकास्तु सापेक्षत्वेऽपि समाससिद्धये ( सिद्धिप्रदर्शनाय ) कुलसहितम्प्रयुञ्जते ।
लघुधर्मेति-यो धर्मो यस्यावच्छेदको भवति स तद्धर्मावच्छिन्न इति नियमः। एवञ्च घटाभाव इत्यत्र घटः ( यस्याभावस्स ) प्रतियोगी, प्रतियोगिता घटनिष्ठा, तस्याः प्रतियोगिताया अवच्छेदकः (अन्यूनानतिप्रसक्तधर्मः) घटत्वम् इति स एव प्रतियोगितावच्छेदक इति । तथा चैतदर्थमभिमतेन "सम्भवति लघौ धर्मे (प्रतियोगितावच्छेदकत्वे) गुरौ तदभावात्" इत्यनेन घटत्वमात्रम् प्रतियोगिताबच्छेदकम् । परन्तु “कम्बुग्रीवादिमानास्तीतिप्रतीतिबलाद् गुरुरपि धर्मोऽवच्छेदकः प्रतियोगितायाः" इति सिद्धान्तानुसारेण कचिन्नियम एव न प्रवर्तते गुरुधर्मस्यापि च प्रतियोगितावच्छेदकत्वमिष्यते। विचारवायम्प्रतियोगितावच्छेदकमात्रविषये नतु साध्यतावच्छेदकत्वादाविति बोध्यम् ।