________________
शास्त्रार्थकलापरिष्कृतः नच शक्त्यभास्यस्संसर्ग आकाङ्क्षाभास्य इतिग्रहणेन लोमलाङ्गूलयोस्संयोगस्य नाका
क्षाभास्यत्वमिति वाच्यम् , ईश्वरेच्छात्मकशक्तापकत्वेन सार्वत्रिकत्वात्तादृशसंसर्गस्याऽप्यप्रसिद्धत्वापत्तेः । नच अनुयोगिवाचकपदनिष्ठशक्तयभास्यस्संसर्ग आकाङ्क्षाभास्य इत्येव ग्रन्थकृत्तात्पर्यमिति नाऽप्रसिद्धिस्संसर्गस्येति वाच्यम् , तच्छब्दस्य बुद्धिविशेषविषयत्वोपलचितवक्त जिज्ञासितधर्मावच्छिन्ने शक्तत्वाद् यत्रानुयोगिवाचकत्वन्तच्छब्दस्य तत्रत्यसंसर्गग्रहणानापत्तेः ।
ननु अनुयोगिवाचकपदनिष्ठशक्तिसम्बन्धिबोधविषयत्वनिष्ठविशेष्यताभिन्नबोधविषयत्वनिष्ठविशेष्यतानिरूपितग्रकारताश्रयप्रतियोगिकस्संसर्ग आकाङ्क्षाभास्य इत्येवं ग्रन्थकृतामाशयेन एवशब्दादिस्थले न दोषः पदार्थविवेकिनामिति चेन्न, एक एव समवाय इति मते एकत्वप्रतियोगिक समवायः घटत्वप्रतियोगिकसमवायादभिन्न एव । तथाच घटत्वप्रतियोगिकसमवायस्याऽप्याकाङ्क्षाभास्यत्वमापद्येत । तथाहि घटपदनिष्ठशक्तिसम्बन्धिबोधविषयस्वनिष्ठविशेष्यताभिन्नमेकवचनपदनिष्ठशक्तिसम्बन्धिबोधविषयत्वनिष्ठविशेष्यतानिरूपितप्रकारताश्रयैकत्वप्रतियोगित्वमिति तादृशैकत्वप्रतियोगिकत्वेन घटत्वप्रतियोगिकसमवायस्य ग्रहणमनिष्टं स्यादिति विचारात् । नच घटत्वप्रतियोगिकसमवायस्य नाकाङ्क्षाभास्यत्वम् “जात्याकृतिव्यक्तयः पदार्थ' इति गौतमसूत्राच्छक्तिभास्यत्वम्प्रसिद्धमेवेति वाच्यम् , वृक्षः कपिसंयोगी एतवृक्षत्वात् इत्यत्र मूलावच्छेदेन कपिसंयोगसत्वेऽपि शाखावच्छेदेन कपिसंयोगो नास्तीतिप्रतीतिवत् एकत्वप्रतियोगिकत्वावच्छेदेन समवायस्याकाक्षाभास्यत्ववतो घटत्वप्रतियोगिकत्वावच्छेदेन समवायाद् भिन्नत्वेन तस्याऽप्याकाङ्क्षामास्यत्वापत्तेदु रुद्धरत्वात् । नच उपस्थितीयविशेष्यताविशिष्टस्संसर्ग आकाङ्क्षाभास्यः वैशि० स्वप्रयोज्यशाब्दबोधीयविषयता निरूपकत्वस्वनिरूपितत्वाऽभाववदुपस्थितीयविषयताप्रयोज्यशाब्दबोधीयविषयतानिरूपकत्वमित्युभयसम्बन्धेन, तथाच न पूर्वोक्ता दोषा इति वाच्यम् ? संयोगेन समवायेन वा अभावो नास्तीत्यादौ अभावपदार्थस्य स्वावच्छिन्नप्रतियोगितानिरूपकत्वसम्बन्धेनान्वयस्तस्याऽप्याकाङ्क्षाभास्यत्वन्न स्यात् । अभावपदवाच्यनपदवाच्ययोरेकत्वात् द्वितीयसम्बन्धाऽसंघटनात् इति ।
नच उपस्थितीयविशेष्यताविशिष्टस्संसर्ग आकाङ्खाभास्य इति, वै० स्वप्रयोज्यशाब्दबोधीयविषयतानिरूपकत्वस्वाऽभाववदुपस्थितीयविषयताप्रयोज्यशाब्दबोधीयविषयतानिरूपकत्वमित्युभयसम्बन्धेन, स्वाभाववत्वं केन सम्बन्धेन ग्राह्यम् ? स्वनिरूपितत्वस्वप्रयोजकपदप्रयोज्यत्वैतदुभयसम्बन्धेन, एवञ्च पदभेदप्रयुक्तोऽभावः अभावनपदयोर्मिन्नत्वात् इति वाच्यम् ? अवच्छेदकभेदेनैव विषयताभेदो भवति । अत एव घटत्वपटत्वरूपावच्छेदकभेदान्नैकविषयता । तथाच नञ्पदाऽभावपदयोरभावत्वमेवावच्छेदकमिति तयोरभेदादुक्तसंसर्गाऽसंघटनेनापत्तेस्तादवस्थ्यात् । नच पदार्थविशिष्टस्संसर्ग आकाङ्क्षाभास्य इति वैशिष्टयञ्च स्वप्रयोज्यशाब्दबोधीयविषयतानिरूपकत्व-स्वनिरूपि