________________
१६
व्युत्पत्तिवादः तत्वाऽभाववदुपस्थितीयविषयताप्रयोज्यत्वैतदुभयसम्बन्धेन, अभाववत्त्वं केन सम्बन्धेन ग्राह्यमिति ? स्वप्रयोजकपदभिन्नपदप्रयोज्योपस्थितीयविषयताप्रयोज्यत्वस्वविशिष्टशाब्द. बोधीयविषयतानिरूपकत्वमित्युभयसम्बन्धेन, एवञ्चाभावस्योभयपदप्रयोज्यत्वेनापत्त्यभावात् इति वाच्यम् , घटघटत्वयोस्समवायस्याऽप्याकाङ्खाभास्यत्वापत्तेः । एकत्वप्रतियोगिकघटानुयोगिकसमवायस्य यथाऽकाङ्क्षामास्यत्वम् तथा घटघटत्वयोस्समवाय. स्याऽप्याकांक्षाभास्यत्वसौष्ठवात् । अत्र सिद्धान्तः--
उपस्थितीयविषयताविशिष्टा या संसर्गता सा आकाङ्क्षाप्रयोज्या वैशिष्टयञ्च स्वप्रयोज्यशाब्दबोधीयविषयतानिरूपितत्व-स्वनिरूपितत्वाभाववदुपस्थितीयविषयतानिरूपितत्वैतदुभयसम्बन्धेन । समवायस्यैकत्वात् घटघटत्वयोस्समवाये संसर्गतैवनास्तीति न दोषः। किञ्च
शास्त्रे पदार्थान्तरत्वव्यवहारश्च पदभेदप्रयुक्तो वृत्तिभेदप्रयुक्तश्च दृश्यते । तथाचाऽ. परपदार्थत्वमत्रोभयसाधारणं विवक्षणीयम् । एवञ्च संसर्गताविशिष्टा संसर्गता आकासाप्रयोज्येतिव्याख्यानम् । वैशिष्टयश्च स्वतादात्म्य-स्वनिरूपितप्रकारताविशिष्टविशेषयताकत्वमित्युभयसम्बन्धेन । सम्बन्धघटकवैशिष्टयञ्च स्वप्रयोजकपदभिन्नपदप्रयोज्यत्व. स्वप्रयोजक वृत्तिज्ञानीयविषयतानिरूपितविषयत्वाऽप्रयोज्यत्वान्यतरसम्बन्धेन । अभावो नास्तीत्यत्र पदद्वयभेदः अभावपदार्थाऽभावत्वनिष्ठप्रकारताविशिष्टत्वस्य नञ्पदार्थाऽभावनिष्ठविशेष्यतायां विद्यमानत्वात् , शब्दस्तावच्छाब्दबोधे भासत इतिसिद्धान्ताच्च । __नचैवमपि घटो नास्ति कलशो नास्तीतिसमूहालम्बनज्ञानोत्तरकाले घटकलशोभयवृत्तिज्ञानजन्यधटोपस्थितेर्घटविषयकशाब्दबोधे घटत्वनिष्ठप्रकारत्वघटनिष्ठविशेष्यतयोर्विनिगमनावैकल्येन पदयोः प्रयोजकत्वात्तत्रत्यतन्निरूपितसंसर्गतासंग्रहापत्तिरिति वाच्यम् १ प्रथमसंसर्गस्थाने स्वप्रयोजकपदनिष्ठाकाङ्क्षाज्ञानीयविषयतानिरूपितसांसर्गिकविषयतानिरूपितपदनिष्ठविषयताप्रयोज्यत्वस्य दानेन घटकलशपदनिष्ठविषयतयोनिरूप्यनिरूपकभावाऽभावात् । अमावनम्पदनिष्ठविषयतयोस्तु परस्परमाकाङ्क्षाशाने निरूप्यनिरूपकभावसत्त्वाच । केचित्तु
शक्त्यप्रयोज्यस्संसर्ग आकाङ्क्षाभास्य इति तन्न १ नीलो घट इत्यादावभेदस्याकाङ्क्षाभास्यत्वन्न स्यात् अभेदोऽस्तीत्यादावभेदरूपार्थस्य शक्तिप्रयोज्यत्वात् । नच शक्त्प्रयोज्या या संसर्गता सा आकाङ्क्षाभास्येति न दोष इति वाच्यम् , नीलाऽ. भिन्नो धट इति तात्पर्येण स इति तच्छन्दः प्रयुज्यते तत्राऽभेदश्शक्तिप्रयोज्य एवेति. तत्राऽभेदस्याकाङ्क्षाभास्यत्वन्न स्यात् ।