________________
शास्त्रार्थकलापरिष्कृतः
श्रीगुरुचरणास्तुउपस्थितीयविषयताविशिष्टा संसर्गता आकाङ्क्षःप्रयोज्येति । वैशिष्टयञ्च स्वप्र. योज्यविशेष्यतानिरूपितत्वस्वप्रयोजकवृत्तिज्ञानीयविषयत्वाऽनि पितवृत्तिज्ञानीयविषयताप्रयोज्योपस्थितीयविषयताप्रयोज्यप्रकारतानिरूपितत्वोमयसम्बन्धेन । घटघटत्वयोस्समवायस्य नाकाङ्क्षाभास्यत्वम् एकत्वनिष्ठप्रकारतानिरूपिता संसर्गता भिन्ना घटत्वनिष्ठप्रकारतानिरूपिता संसर्गता भिन्नति वर्णनेन दोषाऽभावात् । नन्वेतत्प्रकरणात्प्रागाकाङ्क्षाज्ञानं शाब्दबोधे कारणमिति निश्चयाऽभावात्कथं संसर्गतावैशिष्ट्यमिति वाच्यम् ? घटः कर्मत्वम् आनयनं कृतिरिति परस्परनिराकाङ्क्षवाक्याच्छाब्दबोधाभावायाकाङ्क्षाज्ञानस्य शाब्दबोधप्रयोजकत्वमिति पूर्वप्रकरणे निर्धारितत्वाद् विवेकसौष्ठवे क्षतिविरहात् ।
केचिन्मान्यास्तु-उपस्थितीयविषयत्वाऽप्रयोज्या या शाब्दबोधीया संसर्गता सा आकाङ्क्षाप्रयोज्या । अथवा वृत्तिज्ञानीयविषयत्वाऽप्रयोज्या या संसर्गता सा आकायाप्रयोज्येति सर्वत्राऽदोष इति ।।
अत्रास्मद्गुरवः नीलो घटः पीतो घट इत्यादौ अभेदसम्बन्ध आकाङ्क्षाभास्यो वृत्तिमास्यो वेति विचिकित्सायां वृत्तिभास्य इति मीमांसकाः, आकाङ्क्षाभास्य इति नैयायिकाः । मतभेदान्निश्चयाऽभावेन वृत्त्यभास्यत्वस्याकाङ्क्षाभास्यत्वोद्देश्यतावच्छेदके प्रवेशाऽभावेनानिष्टाऽपत्ते रित्यलम् । विधेयांशेऽधिकावगाहिशाब्दानुभवस्वीकर्तृनवीनमते घटो नीलघट इत्यादौ घटत्वे घटत्वभेदाभावः । जातित्वविशिष्टजातिमत्परकसर्वनामवटितजातिमान् घट इत्यर्थक ‘स घट' इत्यादौ घटत्वे घटत्वभेदाभावः। चैत्रस्य गुरुकुलमित्यत्र निरूपितत्वसंसर्गे पदार्थतावच्छेदककुलत्वावच्छिन्नानुयोगिकत्वाभावः, धान्याद् धनमित्यत्र विभक्तिस्साधुत्वार्थिका प्रयोज्यत्वसंसर्ग आकाङ्क्षाभास्यः, धान्यप्रयोज्यन्धनमिति बोधोऽभीष्टः । तत्र प्रयोज्यत्वसंसर्गस्य आकाझ्या भानन्न स्यात्, पदार्थतावच्छेदके धान्यत्वे पदार्थतावच्छेदकधान्यत्वभेदाभावः । कुलात् कुलमित्यत्र देहाद् देहोऽभिजायत इत्यत्र च कुलत्वे पदार्थतावच्छेदके कुलत्वपदार्थतावच्छेदकभेदाभावः, देहत्वे पदार्थतावच्छेदके देहत्वपदार्थतावच्छेदकभेदाभाव इति जन्यत्वसंसर्गस्य भानन्नस्यात् ।
केचित्तु कुशाग्रधियः, समवायस्यैकत्वपक्षे घटघटत्वयोः बृत्तिभास्यस्यापि समवायस्य आकाङ्क्षाभास्यत्वापत्तिवारणाय पूर्वोक्तसर्वदोषपरिहाराय च एकपदार्थ इत्यत्र सप्तमी विशेष्यत्वार्थिका अपरपदार्थस्येत्यत्र षष्ठी प्रकारत्वार्थिका न तु अनुयोगित्वे विभक्ति
अभावो नास्तीत्यत्र "न न" इत्यपि दोष इति केचित् । न चोभयो?तकत्वात् समासाभावेन . रूपसिद्धिरिति वाच्यम् ? केवलद्योतकयोरप्यव्यययोः पाणिनीयशास्त्रेषु विपराभ्यां जेः" "अपपरी . जिने" "अनुपराभ्यां कृतः" "नमस्स्वस्तिस्वाहास्वधालंबषड्योगाच" इत्यादिषु समासदर्शनात् ।
२ व्यु०