________________
व्युत्पतिवादः घटनिष्ठकर्मतानिरूपकानयनानुकूलकृतिविषयकशाब्दबोधवारणाय अभेदसम्बन्धेन नीलविशिष्टघटविषयकशाब्दबोधवारणाय घटमानयेतिवाक्यजन्यशाब्दबुद्धौ एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम्भवतीतिन्यायेन घटादिपदज्ञानजन्योपस्थितौ भासमानाकाशविषयकशाब्दबोधवारणाय च संसर्गभिन्नपदानुपस्थितपदार्थस्य शाब्दबोधे भानन्न भवतीति कल्पनाया वृत्त्या पदजन्यपदार्थोपस्थितिश्शाब्दबोधे कारणमिति नियमानुरोधेन प्रकृ. तत्वात् । नन्वेतन्मते पूर्वोक्तरीत्या पदनिष्ठाकाङ्क्षाशानमेव शाब्दबोधे कारणमितिसिखमेवञ्च घटः कर्मत्वमानयनं कृतिरित्यादिषु घटपदसमभिव्याहृतकर्मत्वपदरूपाकाङ्क्षाज्ञा. नस्य सत्त्वेन घटनिष्ठकर्मतानिरूपकानयनमितिशाब्दबोधस्स्यादेवेति चेन्न, द्वितीयान्तघटपदसमभिव्याहृतानयपदसमभिव्याहारस्यैव कारणत्वाऽभ्युपगमेन क्षतिविरहात् । नचैकघटादिपदादपि शाब्दबोधो दुरस्तथाहि नीलपदसमभिव्याहृतघटपदत्वरूपाकाङ्क्षाज्ञानाऽव्यवहितोत्तरजायमाननीलाऽभिन्नो घट इति शाब्दबोधम्प्रति नीलपदसमभिव्याहृतघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमेवं शाब्दबोधेऽपि कार्यकारणभावस्तथाच तत्तदाकाङ्क्षाज्ञानाऽभावस्य क्षतिकरत्वाऽभावेनोक्तशाब्दस्य निश्शङ्कत्वादिति वाच्यम् ? यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोरपीतिन्यायेन सामान्यरूपेण शाब्दबोधत्वावच्छिन्नम्प्रति पदविशिष्टपदत्वल्पाकाङ्क्षाज्ञानकारणमित्यभिप्रायात् । वैशिष्टयन स्व भिन्नत्वस्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वमित्युभयसम्बन्धेन परिष्काराश्रयणात् । एवञ्च सामान्यकारणाऽभावनैकपदाच्छादाऽपत्तेरसम्भवादित्यलम् ।। ___ यथा नीलो घट इत्यादौ एकपदार्थों घटस्तदनुयोगिकोऽपरपदार्थो नीलस्तत्प्रतियोगिकश्चाभेदसंसर्ग इति समन्वयः । नन्वेवं पर्वतो वह्निमानित्यादौ व्याप्तिभास्यसंयोगस्याऽप्याकाङ्क्षाभास्यत्वापत्तायुद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयविरोध इति चेन्न, नहि तावदुद्देश्यतावच्छेदकमेकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गत्वं किन्तु प्रा
संसर्गत्वञ्च-सम्बन्धप्रतियोग्यनुयोगिभिन्नत्वे सति द्विष्ठत्वे सति विशिष्ट वुद्धिनियामकत्वम् । द्रव्यत्त्वाभाववान् गुण इत्यत्रत्यस्वरूपसम्बन्धस्य लाघवेन प्रतियोगिस्वरूपतामङ्गीकृत्य संसर्गत्वसम्भ. वो न स्यादिति सम्बन्धप्रतियोग्यनुयोगिभिन्नेतिनिवेशो नास्तीति केचित् ।।
प्रकारताविशेष्यताभिन्नत्वे सति विशिष्टधीनियामकत्वे सति विषयतात्वं संसर्गतात्वमितितर्कशास्त्राधिकारिणः ।
परे तु-सम्बन्धानवच्छिन्ना विषयतैव संसर्गतेत्युच्यमानश्शास्त्रीयो व्यवहारः।
वस्तुतस्तु-शाब्दबोध इत्यत्र विषयत्वं सप्तम्यर्थः न तु निरूपितत्वम् तच्च संसर्गपदार्थान्वयि शेयम् । एकपदार्थ इत्यत्रानुयोगित्वं सप्तम्यर्थः, अपर पदार्थस्येत्यत्र प्रतियोगित्वं षष्ठयर्थः । अवयवाथनिरपेक्षत्त्वे सति समुदायार्थोपस्थापकत्वमिति लक्षणकरूढशब्दत्वेन संसर्गमर्यादाशब्द आकाङ्क्षायां रूढः । प्रयोज्यत्वन्तृतीयार्थः, प्रयोज्यत्वञ्च स्वविषयकशान जन्यज्ञाननिरूपितत्वात्मकं शेयम् । मास. भात्वर्थो विषयता, तार्थ आश्रयत्वम् , एवञ्च पकपदार्थनिष्ठानुयोगितानिरूपकस्सन्नपरपदार्थनिष्ठप्रति. योगितानिरूपकच सम्छाब्दबोधनिरूपितविषयताश्रयो यस्संसर्गस्स आकाहानिरूपितप्रयोज्यतानिरूपिताश्रयतावान् भवतोति ध्येयम् ।