________________
शास्त्रार्थ कलापरिष्कृतः
-स्येत्यत्र प्रतियोगित्वं षष्ठयर्थः, संसर्गमर्यादाशब्दार्थः आकाङ्क्षाप्रयोज्य संसर्गत्वम्' अभेदस्तृतीयार्थः । एवञ्च एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्ग आकांक्षाप्रयोज्यसंसर्गत्वाऽभिन्नशाब्दबोधत्वव्यापकविषयताश्रय इति विशिष्टार्थः । पदार्थद्वय संसर्गइशाब्दबोधे आकाङ्क्षाबलेनैव भासते । पीतघटमानयेत्यादौ पीतप्रतियोगिकघटानुयो'गिको यो हि पीतघटयोरभेदादिसंसर्गस्तस्य पदानुपस्थितत्वेनाकाङ्क्षाबलेनैव भानम् । एवमेव राजपुरुष इत्यादिसमासस्थले राजप्रतियोगिक पुरुषानुयोगिकस्वत्वोपस्थापकप'दाऽभावात्स्वत्वसम्बन्धज्ञानं विना विशिष्टबोधस्य राजपुरुष इत्यस्यानुपपत्त्या आकारूक्षाबलेन स्वत्वसंसर्गस्य शाब्दबोधे व्यवहृतिः । आकाङ्क्षा तु-
यत्पदेन विना यस्याननुभावकता भवेत् ।
आकाङ्क्षा वक्तुरिच्छा तु तात्पर्यम्परिकीर्त्तितम् ॥
इतिकारिका वली, आकाङ्क्षायोग्यताssसत्तितात्पय्योणि शाब्दबोधकारणानि । तथाहि-- नीलो घट इत्यादी अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकार तानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वावच्छिन्नम्प्रति स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्वरूपाकाङ्क्षाज्ञानङ्कारणमित्याकाङ्क्षाज्ञानाकारः ।
अभेदसम्बन्धाव
च्छिन्ननीलत्वावच्छिन्नप्रकारता निरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वावनीलपदजन्यनीलत्वावच्छिन्नघटपदजन्यघटत्वावच्छिन्नोपस्थितिरूपयो
च्छिन्नम्प्रति
ग्यताज्ञानङ्कारणमिति योग्यताज्ञानाऽऽकारः । नीलपदाव्यवहितोत्तरवर्त्तिघटपदत्वरूपाऽऽसत्तिज्ञानङ्कारणम् । तत्पदाऽव्यवहितोत्तरवर्त्तितत्पदत्वरूपमेवाऽऽसत्तिज्ञानमित्यासत्तिज्ञानाssकारः । नीलो घट इतिवाक्यमभेदसम्बन्धावच्छिन्ननीलत्वावच्छिनविशेष्यताकशाब्दबोधञ्जनयत्विति तात्पर्य्यज्ञानाऽऽकारः ।
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च षडभिस्तात्पर्य्यनिर्णयः ॥
इतिदार्शनिकाः । गदाधरभट्टाचाय्र्यास्तु समभिव्याहाररूपाकाङ्क्षाज्ञानन्न शाब्दबोधे कारणं केवलेन तात्पर्यज्ञानकारणेनैव गतार्थत्वादिति मूल एवाहुः ।
ननु पदप्रयोगेणैवार्थज्ञानमित्यर्थज्ञानार्थं सर्वत्र लोके पदप्रयोग इति व्याप्तिः । परन्तु पदप्रयोग विनैव प्रकरणानुमानेङ्गनचेष्टननिमेषणादिप्रमाणान्तरेणोपस्थितिविषयीभूतो यः पदार्थों घटपटादिस्तस्य प्रकारविशेष्यविधया शाब्दबोधे प्रतीतिः कुतो नेति प्रश्नः । घटः कर्मत्वम् आनयनम् कृतिः नीलं घट इत्यादिषु तत्तत्पदजन्यपदार्थोपस्थितौ
पदार्थत्वञ्च तत्तत्पदनिष्ठवृत्तिज्ञानाधीनवृत्तिविषयक ज्ञानत्वावच्छिन्नजनकता निरूपित जन्यतानिरू पितनिरूपकत्वसम्बन्धावच्छिन्ना यावच्छेदकता तादृशावच्छेदकता निरूपिता याऽवच्छेद्यता तादृशावच्छेद्यतावती या विषयता तादृशविषयताश्रयत्वम् । तत्तत्पदनिष्ठेतिनिवेशान्न घटपदयोरन्योन्यपदार्थत्वम् । निरूप्यनिरूपकभावप्रवेशाच्च न समूहालम्बनादिकमादाय दोषसम्भवः ।