________________
व्युत्पत्तिवादः घट इत्यादौ अभेदसंसर्गकनीलनिष्ठा प्रकारता नीलत्वावच्छिन्नत्वेन सावच्छिनेति न कार्यदलीयो व्यभिचार इत्याशयात् । समन्वयश्च यथा घट इत्यादौ घटनिष्ठविशेष्यतानिरूपिता घटत्वनिष्ठा प्रकारता निरवच्छिन्नैवेति समवायसंसर्गकनिरवच्छिन्नघटत्वप्रकारकधटविशेष्यकशाब्दबुद्धिम्प्रति घटत्वप्रकारकघटविशेष्यकोपस्थितिरस्त्येवेति । नचैवनिवेशे गुरुरित्यादौ आश्रयत्वसंसर्गकगुरुन्वप्रकारकगुरु विशेष्यकशाब्दबोधो न स्यात् गुरुत्वस्य जात्यखण्डोपाध्यतिरिक्तपदार्थत्वेन गुरुत्वत्वेनोपस्थितेः । एवञ्च गुरुत्वनिष्ठा प्रकारता गुरुत्वत्वावच्छिन्नत्वेन सावच्छिन्नैवेति कथं शाब्दबोध इति वाच्यम् १ प्रकारांशे निरवच्छिन्नत्वनिवेशम्पपरित्यज्य विशेष्यांशे देयस्तथा च गुरुनिष्ठा विशेष्यता निरवच्छिन्नैवेति तत्राऽदोषात् । न च पूर्वोक्तरीत्या नीलो घट इत्यादावभेदसंसर्गकसावच्छिन्नविशेष्यकशाब्दबोधः कथमिति वाच्यम् , तत्र कारणान्तरमादाय शाब्दबोधविधानात् ।
शाब्दबोधे चेत्यत्र चशब्दस्तुशब्दार्थकोऽनुमित्यादिभ्यो वैलक्षण्यन्द्योतयति । अथवा यावत्तावच्छब्दयद्वाक्यालङ्कारार्थश्च । शाब्दबोध इत्यत्र निरूपितत्वं सप्तम्यर्थ इति विद्वद्धौरेया वदन्ति तत्र कुशाग्रबुद्धीनान्न रुचिः। निरूपितत्वस्य वृत्त्यनियामकत्वेन सप्तम्यर्थत्वाऽभावात् । आश्रयत्वसंयोगादीनामेव वृत्तिनियामकत्वम् प्रसिद्धम् , येन सम्बन्धेन यः पदार्थो यत्रास्ति स एवाधिकरणतानियामक इत्याशयः। किञ्च निरूपितत्वस्य सप्तम्यर्थत्वे व्याप्यव्यापकभावभङ्ग एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गत्वमेवोद्देश्यतावच्छेदकं तच्च प्रत्यक्षानुमानोपमानेषु सर्वत्र साधारणं शाब्दबोधनिरूपिताकाङ्क्षाप्रयोज्यविषयताश्रयत्वाख्ये विधेये तद्व्यापकत्वं व्याहन्येतेत्यभिप्रायात् । एवञ्च अभिव्यापकत्वं सप्तम्यर्थः, प्रकृत्यर्थतावच्छेदकव्यापकत्वमिति फलति । भासधात्वर्थो विषयता आश्रयत्वन्तर्थः एकपदार्थ इत्यत्रानुयोगित्वं सप्तम्यर्थः, अपरपदार्थ
त्वम् । यथा पट इतिशानीयविशेष्यतानिरूपिता पटत्वनिष्ठ। प्रकारता निरवच्छिन्ना। प्रकारतायास्सर्वत्र यत्किञ्चित्सम्बन्धावच्छिन्नत्वेन लक्षणासम्भववारणाय सम्बन्धातिरिक्ततिनिवेशः।
सावच्छिन्नस्वञ्च-यत्किञ्चिन्निष्ठावच्छेदकतानिरूपितावच्छेद्यतावत्वम् । पटवन्महानसमित्यादौ महानसत्वावच्छिन्नविशेष्यतानिरूपिता पटनिष्ठा प्रकारता पटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावत्त्वेन सावच्छिन्ना।
प्रतियोगित्वम्-“अमावविरहात्मस्वं वस्तुनः प्रतियोगिता" इत्युदयनाचार्यव्याख्यानुसारि अभावामावरूपत्वं लक्षणम् , यथा घटनिष्ठप्रतियोगिवन्नाम घटामावाभावत्वम् । एतच्चाभावस्थलीय लक्षणम् । भावस्थलेऽपि (अपर पदार्थ निष्ठप्रतियोगितानिरूपके) व्यवहारात प्रति (पूर्व) योगोऽस्यास्तीति प्रतियोगी तस्य भावस्तत्ता बोध्या ।
अनुयोगित्वञ्च-स्वरूपसम्बन्धविशेषः, यथा भूतले घट इत्यत्र भूतले घटसत्तादशायां भूतलनिष्ठा भूतलस्वरूपासंयोगसम्बन्धस्यानुयोगिता। पटोनास्तीत्यादौ पटनिष्ठप्रतियोगितानिरूपितानुयोगिताऽभावे। अनु (पश्चाद) योगोऽस्यास्तीस्यनुयोगीतस्य भावस्तत्वम् ।विस्तरस्तु परिष्कारदपणे द्रष्टव्यः