________________
शास्त्रार्थकला परिष्कृतः
अत्रैव प्रसङ्गात्कारणत्वं विचार्य्यते
ननु कारणत्वञ्च अन्यथा सिद्धिशून्यत्वे सति नियतपूर्ववृत्तित्वमिति । अत्र लक्षणे अन्यथासिद्धित्वस्यानुगतरूपेण ज्ञानाऽभाव इति कथं लक्षणसिद्धिरिति चेन्न ? नियतपूर्ववर्त्तिवृत्तिदण्डत्वादिभेदकूटवत्त्वे सति घटनियतपूर्ववत्तित्वं घटकारणत्वम् | अनियतपूर्ववर्त्तिपटादिवारणाय विशेष्यदलम् । नच विशेषणकोटौ पटादिभिन्नत्वे सतीत्यस्य निवेशः ? गौरवात् । अत्र नियतपूर्ववर्तित्वञ्च कार्याऽव्यवहितप्राकूक्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम् । दण्डत्वादिवारणाय सत्यन्तनिवेशः । अत्र शुक्लाः ननु कार्यप्राक्क्षणे कार्याऽसत्वेन तदानीं कार्याधिकरणत्वस्य कथङ्कार सम्भवः १ कार्यकारणयोरेककालावच्छेदेनैकाधिकरणकारणज्ञानवृत्तित्वाऽभावात् यावत्कार्यज्ञानन्नास्ति तावत्कारणज्ञानन्न भवेत् यावच्च कारणज्ञानन्नास्ति तावत्कार्यज्ञानन्न भवेत् इतिपरस्परापेक्षत्वात् । न च कार्यकारणयोस्साक्षात्सम्बन्धाऽभावेऽपि परम्परासम्बन्धेन कथञ्चित्कार्याऽसच्वकालेऽपि कार्यवत्त्वाङ्गीकारेणैकाधिकरणवृत्ति वात्कारणत्वलक्षणं युक्तमेवेति वाच्यम् ? परम्परासम्बन्धेन कार्यवत्त्वमित्यत्रापि कारणत्वज्ञानमन्तरा सिद्धिर्न भवेत्, भक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायेन परम्परासम्ब न्धस्वीकारेपि कार्यकारणयोरैक्याऽभावेन लक्षणे महाप्रलयस्य दुर्वारत्वात् । किश उक्तकारणत्वलक्षणात् प्राकू एवं किञ्चिदस्तीत्यवगम्यते तदुत्पत्तिस्तु कुतो न ज्ञायते तदुत्पत्तिप्रयोजकत्वादिक किञ्चिद्विलक्षणमङ्गीकार्यं स्यात्तर्हि विलक्षणं कीदृशं विलक्षणे विलक्षणङ्कीदृशमित्यनवस्था दुर्वारैव स्यात् ।
वस्तुतस्तु कल्पितं कार्यकारणयोरधिकरणत्वमाश्रित्य लक्षणसंघटने कथञ्चिद्विवादराहित्यम् । ननु तद्विषयकशाब्दानुकूलशक्तिमत्त्वेन पदार्थज्ञाने पदानां कारणत्वे भाविभूतपदज्ञानाच्छाब्दबोधो न स्यात् तयोश्शाब्दबोधप्राक्कालावच्छेदेनावर्त्तमानत्वात् । कारणस्य च कार्याव्यवहितप्राक्क्षणसत्त्वस्योक्तत्वादिति चेन्न, केषांचिन्मते पदाना-ি स्वत्वात् । नच शाब्दधाराप्रसङ्गः, ज्ञानविषयतापन्नशक्तिमत्त्वेन पदानां हेतुत्वात् । नच पुरुषान्तरीयज्ञानदशायाम्पुरुषान्तरस्य शाब्दबोधापत्तिरिति वाच्यम् ? तत्तत्पुरुषीयत्वस्य तत्र तत्र निवेशेनाऽदोषात् । नच शब्दस्याकाशधर्मत्वाच्छाब्दबोधकारणत्वं कथमिति वाच्यम् १ कालिकविशेषणतया कार्यकारणभावाऽभ्युपगमेन कार्यकारणयोस्सामानाधिकरण्यसम्भवात् । तथा च शब्दाः प्रमाणमितिविवेकेन शब्दप्रमाणस्य गरीयस्त्वात् इति । समन्वयश्च नीलो घट इत्यादौ नीलादिपदजन्यनीलादित्वप्रकारकनीलादिनिष्ठविशेष्यताकशाब्दबोधे नीलादित्वप्रकारकनीलादिनिष्ठविशेष्यताकोपस्थितेस्सत्त्वात् । न च नीलो घट इत्यादिवाक्यजन्याऽभेदसंसर्गकनीलप्रकारकघटविशेष्य कशाब्दबोधे नीलप्रकारकोपस्थितेरभावाद्धेतोः कार्यतावच्छेदकानाक्रान्तत्वं स्यादिति वाच्यम् ? कार्यतावच्छेदककोटीयप्रकारांशे निरवच्छिन्नत्वनिवेशात् । नीलो
निरच्छिन्नत्वञ्च -- पदशक्यसम्बन्धातिरिक्तयत्किचि निष्ठावच्छेदकतानिरूपितावच्छेद्यत्वाभावव