________________
व्युत्पत्तिवादः
यकप्रत्यक्षवाचमिम्प्रति शाब्दसामग्री प्रतिबन्धिकेति कार्यकारणभाव एकः, विभिन्नविषयकप्रत्यक्षत्वावच्छिन्नम्प्रति अनुमितिसामग्री प्रतिबन्धिकेति द्वितीयः. एवञ्च शाब्दबोधस्य प्रत्यक्षत्वस्वीकारे नीलो घट इति पीतो घट इति च शाब्दबोधसामग्रीसत्त्व इष्टोऽपि समूहालम्बन शाब्दबोधो न स्यात् । पीतपटात्मक विभिन्नविषयकशाब्दबोधरूपप्रत्यक्षत्वावच्छिन्नम्प्रति नीलघट विषयकशाब्दसामयाः प्रतिबन्धकत्वेम क्लसत्वात् । एवं विनिगमनाविरहेण नीलघटशाब्दात्मकप्रत्यक्षत्वावच्छिन्नम्प्रति पीतो घट इति शाब्दसामग्न्याः प्रतिबन्धकत्वाऽपत्तेश्व | अनयैव रीत्या पर्वती वह्निमान् महान वह्निमदिति समूहालम्बनात्मकानुमितावपि प्रतिबन्धकत्वापत्तौ समूहालम्बनत्वानुपपत्तिर्बोध्या । नच प्रतिबध्यतावच्छेदककोटौ शाब्दरहितत्वे सतीतिनिवेशोऽर्थात् शाब्दभिन्नविभिन्नविषयक प्रत्यक्षत्वमेव प्रतिबध्यतावच्छेदकमिति तथैवानुमितिरहितविभिन्नविषयक प्रत्यक्षत्वमेव प्रतिबध्यतावच्छेदकमिति कार्यकारणभावानुरोधेन नोक्तसमूहालम्बनद्वयानुपपत्तिरिति वाच्यम्, शाब्दबोधरहितत्वानुमितिरहितत्वनिवेशोऽपि सगौरवस्तत्र विशेष्यविशेषणभावे विनिगमना वैकल्येन वैप
त्यानुसन्धाने गुरुधर्मावच्छिन्नानेकप्रतिबध्यतापतेश्च । यदि त्वनेकनिरुक्तकार्यकारणभावलाघवानुरोधेनैतद् गौरवन्न दोषावहमित्युच्यते तर्हि शाब्दत्वस्य प्रत्यक्षत्वोपगमे दोषोऽन्वेषणीयः ।
वस्तुतस्तु--"प्रत्यक्षानुमानोपमानशब्दाः
प्रमाणानी" तिसूत्रे चतुर्णाम्प्रमाणानां शाब्दबोधादीनाम्पार्थक्येनोपादानमेव
ज्यायस्तर
पार्थक्येनोपादानात्प्रमेयानामपि
मित्यलम् ।
अत्र कुशाग्रबुद्धयस्तु -
ननु गामानय गौरस्तीत्यादौ शाब्दबोधसिद्धये शब्दाः प्रमाणमानुभविक म्परन्तु तादृशवाक्ये मानस एव बोधस्स्वीकाय्र्य्योऽलशब्दस्य प्रमाणान्तरत्व स्वीकारेणेति चेन्न १ विषयतासम्बन्धेन प्रत्यक्षत्वावच्छिन्नम्प्रति तादात्म्यसम्बन्धेन विषयस्य हेतुत्वमितिनियमानुसारेण गोकर्मकत्वेनानयनं शृणोमि अस्तित्वेन गां शाब्दयामीत्याद्यनुभवान सर्वाऽभिमतत्वेनाऽसिद्ध्याऽपत्तेः । किञ्च गामानयेत्यादिवाक्यस्थले मानसबोधस्वीकारे प्रतिबन्धकाऽभावात्कारणान्तरेणोपस्थितानां घटदण्डादीनामुपस्थित्या कर्मत्वांशे मानापतेश्च । न चेष्टापत्तिरत्यन्ताऽनुभवविरोधात् । एवंविधांशे घटादिकर्मकत्वेनानयनं शृणोमीति विशिष्टानुभवस्यानुदयात् । न चानुमितिरेव साऽस्तु कथ शब्दप्रमाणस्वीकृतिरिति प्रश्ने प्रकारो द्रष्टव्यः । गौरस्तीतिवाक्यश्रवणानन्तरं " गौरस्ति तावती अस्तिपदसाकाङ्क्षपदस्मारितत्वात् चक्षुर्वत्" इतिविशेषानुमानात् । एवमन्यत्राऽपीति वाच्यम्, विनष्टचक्षुषि व्यभिचारसम्भवात् । पक्षे स्मृतिविषयत्वाऽज्ञानदशायामपि शाब्दमतेरनुभवसिद्धत्वाच्छाब्दम्प्रति पदजन्योपस्थितेरेव कारणत्वात्तद्विषयत्वज्ञानस्यानावश्यकत्वेन शाब्दस्यैव युक्तत्वात् इत्याहुः ।