________________
शास्त्रार्थकलापरिष्कृतः
नङ्कारणं पर्वतो वह्निमानित्यादौ व्यासिज्ञानादीनामेकस्वरूपेण कारणत्वन्न भवति परस्परजन्यबोधे व्यभिचारश्च कार्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेशः । एवन्नीलो घट इत्यत्राकाङ्क्षायोग्यतादावपि । एवञ्चार्थबोधनाय वाक्यप्रयोग इति न्यायेन व्याप्तिज्ञानादिरहिताकाङ्क्षायोग्यतादिघटितसामम्यैव शाब्दात्मकानुमित्युत्पत्तिः, विशेषविशेषसामग्रीसहकारेण शाब्दबोधस्यानुमितित्वसम्भवः । एवञ्च पूर्वोक्तकार्यकारणभावे कारणमात्राणामप्रवेशेनाऽगौरवात् । तथाच शाब्दबोधस्यानुमितावन्तर्भावे विशिष्टं लाघवं स कुतो नेति प्रश्नकर्तुराशयः । ननु यथा लाघवाच्छान्दस्यानुमितावन्तर्भावस्तथैव विनिगमनाविरहेणानुमितेरपि शाब्देऽन्तर्भावः कथन्न १
यश्चाभयोस्समो दोषः परीहारस्तयोस्समः । नैकः पर्य्यनुयोक्तव्यस्तादृगर्थविचारणे ॥
समानविषयकानुमितित्वावच्छि
इति न्यायात् । नचात्र लाघवाऽभावश्शङ्कयः, नम्प्रति प्रत्यक्षसामग्री प्रतिबन्धिकेति पृथक् कार्यकारणभावस्याकर्त्तव्यत्वेन समानविषयकशाब्दबुद्वित्वावच्छिन्नम्प्रति प्रत्यक्षसामग्री प्रतिबन्धिकेत्येकेनैव निर्वाहसम्भवात् । अत एव समानविषयकशाब्दबुद्धित्वावच्छिन्नम्प्रति अनुमितिसामन्याः प्रतिबन्धकत्वमपि न कर्त्तव्यम्भवत्युभयोरेकत्वात् । नचानुमितेश्शान्देऽन्तर्भावेऽनुमितावपि शाब्दयामीतिप्रतीतिरापतेदुभयो रेकत्वादिति वाच्यम् ? पूर्वोक्तलाघवरीत्या शाब्देऽप्यनुमिनोमीतिव्यवहाररूपप्रतीते "र्यश्वोभयोस्समो दोष" इति न्यायेन तुल्यत्वात् । नच न शाब्दयामीत्याकारकानुव्यवसायेऽनुमितिभिन्नरशाब्द एव कारणमिति न व्यभिचार इति वाच्यम् ? अनुमिनोमीत्यनुव्यवसायेऽपि शाब्दान्यत्वस्य हेतुत्वसम्भवात् । नच शाब्दयामीत्यनुभवानुरोधेनोभयेोरेकत्वेऽपि न व्यभिचार इति वाच्यम्, नानुमिनीमीत्यनुभवानुरोधेनाऽपि समाधानस्य तुल्यत्वात् । इति चेत्सत्यम् - उभयत्र समाधानप्रतिबन्यैव शाब्दानुमित्योः पार्थक्येनोपादानात् । नच शाब्दमात्रे ज्ञानलक्षणप्रत्यासत्त्योपस्थितिसत्त्वेन लौकिकसन्निकर्षाऽमावेऽपि शाब्दे प्रत्यचत्वमेवास्त्विति वाच्यम्, ज्ञानलक्षणप्रत्यासत्याऽपूर्व व्यक्ति मानाऽसम्भवात् । नच सामान्यलक्षणप्रत्यासत्यैवाऽपूर्वव्यक्तिमानमिति वाच्यम्, तदनङ्गीकारपक्षे दोषात् । नचेश्वरज्ञानस्येव सन्निकर्षाभावेऽपि शाब्दबोधस्याऽपि प्रत्यक्षत्वसम्भव इति वाच्यम्, ज्ञानाकरणकं ज्ञानं प्रत्यक्षमिति हि प्रत्यक्षलक्षणमेवञ्च शाब्दबोधे पदज्ञानादेः करणत्वेन लक्षणासंघटनात् । नच ज्ञानत्वावच्छिन्नम्प्रति सामान्यरूपेण मन एव कारणम् एवञ्च पदज्ञानादेरकरणत्वेन प्रत्यक्षत्वसम्भव इति वाच्यम्, शाब्दत्वजातौ चाक्षुषत्वजात्या साङ्कर्य्याऽपत्तेः । नच शाब्दबुद्धौ प्रत्यक्षत्वस्वीकारे मानसत्वव्याप्यत्वस्यैव शाब्दत्वजातौ स्वीकारेण तादृशदोषाऽसम्भव इति वाच्यम्, नीलो घटः पीतो घट इति शाब्दबोधाऽव्यवहितोत्तरकाले नीलं घटं साक्षात्प्रत्यची करोमीत्यनिष्टानुभवापत्ते दुर्वारस्वात् । नच लौकिक पन्निकर्षाभावान्नोक्तानुभव इति वाच्यम्, विभिन्नविष