Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 18
________________ व्युत्पतिवादः घटनिष्ठकर्मतानिरूपकानयनानुकूलकृतिविषयकशाब्दबोधवारणाय अभेदसम्बन्धेन नीलविशिष्टघटविषयकशाब्दबोधवारणाय घटमानयेतिवाक्यजन्यशाब्दबुद्धौ एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम्भवतीतिन्यायेन घटादिपदज्ञानजन्योपस्थितौ भासमानाकाशविषयकशाब्दबोधवारणाय च संसर्गभिन्नपदानुपस्थितपदार्थस्य शाब्दबोधे भानन्न भवतीति कल्पनाया वृत्त्या पदजन्यपदार्थोपस्थितिश्शाब्दबोधे कारणमिति नियमानुरोधेन प्रकृ. तत्वात् । नन्वेतन्मते पूर्वोक्तरीत्या पदनिष्ठाकाङ्क्षाशानमेव शाब्दबोधे कारणमितिसिखमेवञ्च घटः कर्मत्वमानयनं कृतिरित्यादिषु घटपदसमभिव्याहृतकर्मत्वपदरूपाकाङ्क्षाज्ञा. नस्य सत्त्वेन घटनिष्ठकर्मतानिरूपकानयनमितिशाब्दबोधस्स्यादेवेति चेन्न, द्वितीयान्तघटपदसमभिव्याहृतानयपदसमभिव्याहारस्यैव कारणत्वाऽभ्युपगमेन क्षतिविरहात् । नचैकघटादिपदादपि शाब्दबोधो दुरस्तथाहि नीलपदसमभिव्याहृतघटपदत्वरूपाकाङ्क्षाज्ञानाऽव्यवहितोत्तरजायमाननीलाऽभिन्नो घट इति शाब्दबोधम्प्रति नीलपदसमभिव्याहृतघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमेवं शाब्दबोधेऽपि कार्यकारणभावस्तथाच तत्तदाकाङ्क्षाज्ञानाऽभावस्य क्षतिकरत्वाऽभावेनोक्तशाब्दस्य निश्शङ्कत्वादिति वाच्यम् ? यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोरपीतिन्यायेन सामान्यरूपेण शाब्दबोधत्वावच्छिन्नम्प्रति पदविशिष्टपदत्वल्पाकाङ्क्षाज्ञानकारणमित्यभिप्रायात् । वैशिष्टयन स्व भिन्नत्वस्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वमित्युभयसम्बन्धेन परिष्काराश्रयणात् । एवञ्च सामान्यकारणाऽभावनैकपदाच्छादाऽपत्तेरसम्भवादित्यलम् ।। ___ यथा नीलो घट इत्यादौ एकपदार्थों घटस्तदनुयोगिकोऽपरपदार्थो नीलस्तत्प्रतियोगिकश्चाभेदसंसर्ग इति समन्वयः । नन्वेवं पर्वतो वह्निमानित्यादौ व्याप्तिभास्यसंयोगस्याऽप्याकाङ्क्षाभास्यत्वापत्तायुद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयविरोध इति चेन्न, नहि तावदुद्देश्यतावच्छेदकमेकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गत्वं किन्तु प्रा संसर्गत्वञ्च-सम्बन्धप्रतियोग्यनुयोगिभिन्नत्वे सति द्विष्ठत्वे सति विशिष्ट वुद्धिनियामकत्वम् । द्रव्यत्त्वाभाववान् गुण इत्यत्रत्यस्वरूपसम्बन्धस्य लाघवेन प्रतियोगिस्वरूपतामङ्गीकृत्य संसर्गत्वसम्भ. वो न स्यादिति सम्बन्धप्रतियोग्यनुयोगिभिन्नेतिनिवेशो नास्तीति केचित् ।। प्रकारताविशेष्यताभिन्नत्वे सति विशिष्टधीनियामकत्वे सति विषयतात्वं संसर्गतात्वमितितर्कशास्त्राधिकारिणः । परे तु-सम्बन्धानवच्छिन्ना विषयतैव संसर्गतेत्युच्यमानश्शास्त्रीयो व्यवहारः। वस्तुतस्तु-शाब्दबोध इत्यत्र विषयत्वं सप्तम्यर्थः न तु निरूपितत्वम् तच्च संसर्गपदार्थान्वयि शेयम् । एकपदार्थ इत्यत्रानुयोगित्वं सप्तम्यर्थः, अपर पदार्थस्येत्यत्र प्रतियोगित्वं षष्ठयर्थः । अवयवाथनिरपेक्षत्त्वे सति समुदायार्थोपस्थापकत्वमिति लक्षणकरूढशब्दत्वेन संसर्गमर्यादाशब्द आकाङ्क्षायां रूढः । प्रयोज्यत्वन्तृतीयार्थः, प्रयोज्यत्वञ्च स्वविषयकशान जन्यज्ञाननिरूपितत्वात्मकं शेयम् । मास. भात्वर्थो विषयता, तार्थ आश्रयत्वम् , एवञ्च पकपदार्थनिष्ठानुयोगितानिरूपकस्सन्नपरपदार्थनिष्ठप्रति. योगितानिरूपकच सम्छाब्दबोधनिरूपितविषयताश्रयो यस्संसर्गस्स आकाहानिरूपितप्रयोज्यतानिरूपिताश्रयतावान् भवतोति ध्येयम् ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 296