Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ गुणप्रकरणम्
गुणसामान्य साधर्म्यम्
रूपादीनां सर्वेषां गुणानां गुणत्वाभिसम्बन्धो द्रव्याश्रितत्वं निष्क्रियत्वमगुणवत्त्वञ्च ।
इदानीमुद्देशक्रमेणावसरप्राप्तानां गुणानामितरपदार्थवैधर्म्येण व्यापकं साधर्म्यं पुनः प्रतिनियतानाञ्च स्वभेदान्तराद् व्यावृत्तिमपि दर्शयन्नाह *रूपादीनां सर्वेषां गुणानां गुणत्वाभिसम्बन्धः इत्यादिप्रकरणम् । गुणत्वेनाभिसम्बन्धस्तदुपलक्षितः समवायः । स च केषाम् ? रूपादीनाम् । तथाप्यादिशब्दस्य अनियतार्थग्राहकत्वान्न ज्ञायते कियतामतः सर्वेषाम् । उत्क्षेपणाद्यवरोधपरिहारार्थञ्च *गुणानाम्* इति ।
नन्वेवं सर्वेषां गुणानामित्युक्ते व्यभिचाराभावाद् व्यर्थं रूपादीनामिति - पदम् । न । [ गुणत्वाभिसम्बन्धा ] श्रितत्व विशेषणाभ्यां 'सर्वो गुण:' इति दर्शनस्य व्यवच्छेदार्थत्वात् । तथाहि रूपादीनामेव गुणत्वाभिसम्बन्ध: साधर्म्यं नान्येषामिति ।
न च सांख्याभ्युपगतस्य गुणत्रयस्य व्यवच्छेदार्थं रूपादिग्रहणमिति न्याय्यम्, तस्य प्रमाणानुपलब्धेः । प्रसिद्धञ्च विशेषणेन व्यवच्छिद्यमानं दृष्टं यथा नीलेनानीलमिति । तदेवं रूपादयः, इतरस्माद् भिद्यन्ते, गुणा इति व्यवहर्त्तव्या वा, गुणत्वाभिसम्बन्धात्, ये तु न भिद्यन्ते; न च गुणा इति व्यवह्रियन्ते, न ते गुणत्वाभिसम्बद्धा:, यथा क्षित्यादय इति । शेषं पूर्ववत् ।
तथा द्रव्याश्रितत्वञ्च साधर्म्य रूपादीनाम् । तच्च सावधारणं विवक्षितम् । अन्यथा हि द्रव्यादीनामपि द्रव्याश्रितत्वाद् अतिव्यापि साधर्म्यं स्यात्, न व्यावृत्तमिति । अवधारणन्तु द्रव्येष्वेवाश्रितत्वमेवेति । द्रव्यकर्मविशेषा द्रव्येष्वेवाश्रिता, न चाश्रिता एवेति । सामान्यसमवायौ तु द्रव्येष्वाश्रितौ, न तु द्रव्येष्वेव, गुणादावपि सद्भावात् गुणास्तु द्रव्येष्वेवाश्रिताः
For Private And Personal Use Only
5
10
15
20
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 315