Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवत्या गुणेष्वनेकाश्रिताः संयोगविभागद्वित्वद्विपृथकत्वादयोऽनेकाश्रिताः । अथेदानीम् एकानेकाश्रितत्वं दर्शयन्नाह संयोगविभागद्वित्वद्विपृथक्त्वादयोऽनेकाश्रिताः* इत्यादिपदेन त्रित्वादिका परार्धान्ता संख्या तद्5 विशिष्टञ्च पृथक्त्वं गृह्यते । अनेकाश्रितत्वञ्चात्र व्यक्तयपेक्षया विवक्षितम्, न जात्यपेक्षया, रूपादेरपि तद्भावप्रसङ्गात् । यद्यपि रूपत्वादिजातीयमनेकस्मिन् न वर्तते तथापि एका तद्व्यक्तिरेकस्मिन्नेव । न चैवं संयोगादिः, तद्व्यक्तेरनेकाश्रितत्वोपलब्धेः । तद्भिन्नानामेकाश्रितत्वम् शेषास्त्वेक कद्रव्यवृत्तयः । शेषास्त्वेकैकद्रव्यवृत्तयः इति । उक्तभ्योऽन्ये शेषाः । ते हि एकैकस्मिन्नेव द्रव्ये वर्तन्ते । एका हि व्यक्तिरेकस्मिन्नेव समवेता तथा रसादिव्यक्तयोऽपि । अवधारणन्त्वेषाम् एकैकद्रव्यवृत्तित्वमेव, नत्वेषामेव, उभयवृत्ती नामपि तद्भावात् । 15 विशेषगुणोद्देशः रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुःखेच्छाद्वेष प्रयत्नधर्माधर्मभावनाशब्दा वैशेषिकगुणाः । सामान्यगुणोद्देशः संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वनैमि त्तिकद्रवत्ववेगाः सामान्यगुणाः । इदानीं के विशेषगुणाः, के च सामान्यगुणा इत्युपदर्शनार्थमाह रूपादयः शब्दान्ता वैशेषिकगुणाः । कीदृशमेषां विशेषगुणत्वम् ? योकाश्रितत्वं . गुरुत्वादावपि स्यात् । अथैकैकेन्द्रियग्राह्यत्वम् ? स्नेहद्रवत्वधर्माधर्मादौ न स्यात् । अथासाधारणॐ त्वम् ? तन्नास्ति, रूपत्वादिजातीयस्यानेकत्रोपलब्धेः । व्यक्तिविवक्षया ? गुरुत्वादावप्यस्त्येव । न, अन्यथा तदुपपत्तेः । तथाहि, स्वसमवेतविशेष For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 315