Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
प्रस्तावना
इमं प्राकृतपद्यमयं चतुःशरणप्रतिपत्ति-गुणानुमोदना-दुष्कृतगर्हा-भावनारूपेषु चतर्ष प्रविभक्तं विवेकमञ्जरीनामानं ग्रन्थं कविसभाश्रृङ्गारोपनामा आसडनामा कविर्विनिरमास्त । कविना चानेन
"सिरिभिल्लमालनिम्मलकुलसंभवकडुयरायतणएण ।
इय आसडेण रइयं वसुजलहिदिणेसवरिसम्मि" ॥१४४॥ इत्यन्त्यगाथायां संक्षेपेण स्वं परिचाययता ग्रन्थस्यास्य १२४८ संवत्सरात्मकं निर्माणसमयं च विनिर्दिशता निजस्य विक्रमीयत्रयोदशशताब्दीरूपः सत्तासमयोऽपि प्रदर्शितः । एतट्टीकाकारः सरस्वतीपुत्रबिरुदः कविवरः श्रीबालचन्द्रसूरिः, यस्य मूलग्रन्थकारपुत्रेण जैत्रसिंहेनाभ्यर्थितस्य टीकाकरणे प्रवृत्ततया न ततोऽक्तिनः सत्ताकालः, आसडकविसंबन्धिनमन्यमपि वंशपरिवार-प्रकृतग्रन्थोत्पत्तिकारण-तनिर्मितान्यग्रन्थादिकं ज्ञातव्यवृत्तान्तं तस्या एवान्त्यगाथाया विवरणे कतिपयैः पद्यैरुदलिखत्, इत्यत्र तत्पुनरावर्तनमनावश्यकमवबुध्यमानस्तत्रैव नयनार्पणायासाय जिज्ञासून् विज्ञपयामि ।
टीकाकारेण बालचन्द्रसूरिणा, आसडकविनैव विरचितस्योपदेशकन्दलीनाम्नो ग्रन्थस्य महती वृत्तिः, करुणावज्रायुधं नाटकम्, वसन्तविलासमहाकाव्यं चेति ग्रन्था विनिर्मिताः, येषु प्रकटिता प्रतिभोत्कर्षशालिनी कवित्वशक्तिरद्यापि प्रणेतुः कीर्त्तिकाव्यरसास्वादरसिकानां मुदं च जनयति ।
टीकाकारेण निजं गुरुपारम्पर्य विस्तरत उपदेशकन्दलीप्रशस्तावुल्लिखितम्, यस्यायं फलिताशयः
१. द्रष्टव्योऽत्र प्रशस्तेस्त्रयोदशः श्लोकः ।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 362