Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 13
________________ किञ्चिद् Naha धन्योऽस्म्यहं, यद् तीर्थोद्धारकगुरुवराणां पवित्रं चरित्रमाकलयितुमर्होऽभवम् । अतीव हर्षाप्लावितहृदयान्वितोऽभवम् यदा मया श्रुतं, सैषा गुरुगुणमन्दाकिनी गुरुवरविद्यमाने स्त्येव प्रवाहिता, नैकजीवोपकारकारी प्रवहति चाद्य । परमाचार्यवर्याणाञ्जीवनमतीव रोचकं मनोहरं प्रासादिकमलङ्कारिकमस्ति । पदे पदे ‘अद्भूत्' 'अद्भूतेति' शब्द प्रस्फुटति मुखात् । पूर्वे तु गुर्जरगिरायामेव प्रकाशितं, तदनु गिर्वाणगिरायां काव्यरुपेण व्यरचयतसाधुचरितपण्डितवर्याभ्यां व्रजनाथशास्त्रीपण्डितशिवशङ्करशास्त्रीभ्याम् । स एष काव्यः पुनः प्रकाश्यते त्रयधिकसप्ततिवर्षान्तरे। | पूज्याचार्यवर्यनीतिसूरीश्वराः केन उपमियते । किं समुद्रेण सह तुल्यता क्रियते ? न न गुरुवरेषु अंशमात्रमपि क्षारत्व॑नास्ति । तर्हि किं अम्बरसदृशोऽस्मद्गुरुः? सोऽपि न, अम्बरस्तु मात्रैक गुणः, गुरुवराः तु अनेकानेकगुणकलिता । सर्वस्मिन्नुपमायां किञ्चिद् किञ्चिन्युनता दृश्यते, किन्तु पूज्यवर्याणाम् न्युनतायाः एव न्युनता। यथा यथा गुरुगुणप्रवाहिण्यां निमज्यन्ते तथा तथा अस्मच्चेतसि आह्लादोल्लसति । अतीवातीव प्रसन्निभवति मनः। भवदपि आचाम्यन्तु अमृतम् । भवतानन्दमाविस्क्रियते । विशेषस्तु गुर्जरप्रस्तावनायामेव दर्शितमासित् । शुभंभवतु। -आ. हार्दिकरत्नसूरि

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 502