________________
किञ्चिद्
Naha
धन्योऽस्म्यहं, यद् तीर्थोद्धारकगुरुवराणां पवित्रं चरित्रमाकलयितुमर्होऽभवम् । अतीव हर्षाप्लावितहृदयान्वितोऽभवम् यदा मया श्रुतं, सैषा गुरुगुणमन्दाकिनी गुरुवरविद्यमाने स्त्येव प्रवाहिता, नैकजीवोपकारकारी प्रवहति चाद्य । परमाचार्यवर्याणाञ्जीवनमतीव रोचकं मनोहरं प्रासादिकमलङ्कारिकमस्ति । पदे पदे ‘अद्भूत्' 'अद्भूतेति' शब्द प्रस्फुटति मुखात् । पूर्वे तु गुर्जरगिरायामेव प्रकाशितं, तदनु गिर्वाणगिरायां काव्यरुपेण व्यरचयतसाधुचरितपण्डितवर्याभ्यां व्रजनाथशास्त्रीपण्डितशिवशङ्करशास्त्रीभ्याम् । स एष काव्यः पुनः प्रकाश्यते त्रयधिकसप्ततिवर्षान्तरे।
| पूज्याचार्यवर्यनीतिसूरीश्वराः केन उपमियते । किं समुद्रेण सह तुल्यता क्रियते ? न न गुरुवरेषु अंशमात्रमपि क्षारत्व॑नास्ति । तर्हि किं अम्बरसदृशोऽस्मद्गुरुः? सोऽपि न, अम्बरस्तु मात्रैक गुणः, गुरुवराः तु अनेकानेकगुणकलिता । सर्वस्मिन्नुपमायां किञ्चिद् किञ्चिन्युनता दृश्यते, किन्तु पूज्यवर्याणाम् न्युनतायाः एव न्युनता।
यथा यथा गुरुगुणप्रवाहिण्यां निमज्यन्ते तथा तथा अस्मच्चेतसि आह्लादोल्लसति । अतीवातीव प्रसन्निभवति मनः।
भवदपि आचाम्यन्तु अमृतम् । भवतानन्दमाविस्क्रियते । विशेषस्तु गुर्जरप्रस्तावनायामेव दर्शितमासित् । शुभंभवतु।
-आ. हार्दिकरत्नसूरि