________________
Po.. विषयानुक्रमः
पृष्ठम् ।
૨ થી ૨૮
२९ थी ३६
विषयः मङ्गलाचरणम् । सौराष्ट्रराष्ट्राऽन्तर्गतवांकानेरपुरे श्रेष्ठिफूलचन्द्रभार्यायाश्चोथीतिनाम्न्याः कुक्षेश्चरित्रनायकस्य जन्म। नीहालचन्द्राभिधानस्य तस्य पठनकौशल्यं देव-गुरु-धर्मश्रद्धा वैराग्यं च। महेरवाडाग्रामसमीपे स्वयं दीक्षाग्रहणं, तत्र ग्रामे च चातुर्मास्याऽवस्थानम् । वर्षाकालानन्तरं विहृत्य उमताग्रामे गमनम् । तत्र मुनिराजश्रीकान्तिविजयसमीपे पन्न्यास-श्रीभावविजयनाम्ना गृहीता दीक्षा । दीक्षितस्य मुनि-श्रीनीतिविजयेति नामप्रदानम् । पन्न्यास-श्रीभावविजयगणिवर्यस्य पट्टावलीवर्णनम् ।
मनिराज-श्रीनीतिविजयस्य उमताग्रामाद विहारः, वडनगरे च पन्न्यास-श्रीप्रतापविजयसन्निधौ योगोद्वहनं बृहद्दीक्षागृह्णातिश्च । ततो वीजापुर-राजनगर-भोयणी-तारङ्ग-केसरीया-महेरवाडासिद्धपुर-वालमो-मतादिग्रामनगरतीर्थेषु विहारः, अनेकभव्य प्रतिबोधो धार्मिक-कृत्यानि च ।
ग्लानस्य पूज्यतमश्रीगुमानविजयमुनीन्द्रस्य वैयावृत्त्याय उमताग्रामाद् राजनगरे गमनम् । चतुर्मासानन्तरं संघेन सह विहारः, श्रीशत्रुजयतीर्थयात्रा | पादलिप्तपुरात् पट्टन-श्रीपोर-राजनगरवडनगरादिषु विहारः, गुरुसेवा चातुर्मासावस्थानम्, उद्यापनाऽष्टाह्निकमहोत्सव-नानातपस्यादिधार्मिक कृत्यानि च ।
पत्तनपुरात् सूर्यपुरे गमनम् । तत्र चतुर्मासानन्तरं डाह्याभाइनाम्नः श्राद्धस्य दीक्षादानपूर्वकं मुनि-दान-विजयेति नाम दत्तम् । ततश्छायापुरी-गान्धार-कावी-वेजलपुर-गोधरादिषु विहृत्य दाहोदपुरे आगमनम् । तत्र वाडीलाल-हुकमचन्द्राभिधयोर्दीक्षादानपूर्वके मुनिवीरविजय-हर्षविजयेति नाम्नी दत्ते । ततो राजगढधारपुर-माण्डवगढ-इन्दोरादिषु विहृत्य उज्जयिनीनगर्यामागमनम् । तत्र पयोदकालं निर्वाह्य राजनगरे आगत्य संघेन सह श्रीसिद्धाचलतीर्थयात्रा । ततस्तारङ्गतीर्थयात्रां कृत्वाऽहम्मदावादपुरे आगमनम्, तत्र च डहेलाभिधोपाश्रयज्ञानभाण्डागारस्य जीर्णोद्धारः कारितः।
३६ थी ६३
६३ थी ७६