Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 18
________________ दीक्षयित्वा शत्रुञ्जयतीर्थयात्रां विधाय कुण्डलापुरि आगमनम् । तत्र वल्लभदास-मनसुखलालयोर्दीक्षादानपूर्वके मुनिवल्लभविजयमलयविजयेति नाम्नी दत्ते । ततः पादलिप्तपुरे गत्वा चतुर्मासावस्थानम् । तत्रोद्यापनादिमहोत्सवा उपधानादितपोविधापनं साध्वीपाठशाला स्थापनं च । ततो विहृत्य जीर्णदुर्गे गमनं, रैवताचलतीर्थयात्रा । जीर्णदुर्गे अरुणविजय कञ्चनविजययोर्दीक्षा । ततो जेतपुर-गोंडल - राजकोटादिषु विहृत्य वङ्कपुरे आगमनम्, तत्र ध्वजदण्डमहोत्सवः । ततः स्थापनदुर्ग - मूली - वर्द्धमान - दसाडादिषु विहृत्य शङ्खेश्वरतीर्थयात्रा, मुनिकनकविजयस्य च दीक्षा । ततो राधनपुरे गमनम् । तत्र मुनिसम्पद्विजय - मङ्गलविजयगणिवरयोः पन्न्यासपदवीप्रदानम् । मुनिकञ्चनविजयस्य बृहद्दीक्षा, चतुर्मासावस्थानं पाठशालाभवनोद्घाटनम् उपधानतपोविधापनं च । चतुर्मासानन्तरं मुनि भरतविजय - हिम्मतविजय- भूषणविजयानां दीक्षा । राधनपुराद् शङ्खेश्वर - चाणस्मादिषु विहृत्य पट्टनपुरे आगमनम् । तत्र संघक्लेशोपशमकरणम् अष्टाह्निकादयो महोत्सवाश्च । ततो विहृत्य बारेजापुरे मुनिरंगविजयस्य दीक्षा दत्ता । ततोऽहम्मदावादपुरे गमनम् । चातुर्मासानन्तरं ततो विहृत्य प्रान्तिजपुरे आनन्दविजयस्य दीक्षादानम् । ततो विहृत्य केसरियातीर्थयात्रा कृत्वा उदयपुरे गमनम् । तत्र चम्पकलाल श्राद्धस्य दीक्षादानपूर्वकं मुनिचन्द्रोदयविजयेति नाम दत्तम् । ततो विहृत्य आघाट - फत्तेहपुरकरेडा-खिमली - भीलवाडादिषु विहृत्य श्रीचमलेश्वरतीर्थयात्रा । चमलेश्वरतीर्थात् पारोलि - शाहिपुर - बनेडादिषु विहृत्य पुरनगरे गमनम् । तत्र ध्वजदण्डसमारोपण महोत्सवः, उमङ्गविजयस्य दीक्षा । मुनिचन्द्रोदयविजयस्य बृहद्दीक्षादानपूर्वकं मुनिचन्दनविजयेति नाम दत्तम् । ततो विहृत्य चित्तोडदुर्गे गमनम् । चित्रकूटतीर्थस्य जीर्णोद्धारप्रबन्धश्च । आहेडोपपुरे श्रीमज्जगच्चन्द्रसूरीश्वरबिम्बप्रतिष्ठापनम् । उदयपुराद् डुंगरपुर-मोडासा- हरसोलरख्याल-डभोडादिषु विहृत्य अहम्मदावादपुरे आगमनम् । तत्र प्रतिष्ठो-द्यापनादिमहोत्सवाः । चतुर्मासावस्थानम् । प्रशस्तिः । २८४ थी ३०९ ३०९ थी ३२७ ३२७ थी ३५२ ३५३ थी ३७८ चातुर्मास्याख्यानम् । अनुयोगाचार्य - पन्न्यास- श्रीमद्-भावविजयगणिवर्याणां पट्टपरम्परा । ३७९ थी ४००

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 502