Book Title: Vicharsar Prakaranam Cha
Author(s): Pradyumnasuri, Manikyasagar
Publisher: Agamoday Samiti
________________
उपक्रमः
इह हि जगति अल्पीयसा परिश्रमेण भूरिविषयाणामवबोधकरणाय प्रवर्तन्ते विद्याविलासिनः प्रेक्षावन्तः । अन्वेषन्ते च तादृशं ग्रन्थम् । तदर्थिनां च भिन्नभिन्नप्रभूतविषयप्रतिपादकं श्रीसिद्धान्तप्रवचनसारोद्धारादिशास्त्र दोहनरूपं प्रकरणमिदमतीवोपयोगीति मत्वा परोपकारपरायणैरागमोद्धारकवाचनादायकाचार्यवर्य श्री आनन्दसागरसूरिभिरस्य प्रकरणस्य संशोधनमुद्रापणादौ भूयान् प्रयासो व्यधायि । आशासेऽहं च परिश्रममेनं प्रस्तुतप्रकर. णस्य वाचना विचारणानुष्टानेन सफलीकरिष्यन्ति विपश्चित इति ।
अस्य प्रकरणस्य च निर्मातारः श्रीप्रद्युम्नाचार्या एव । यद्यपि एतन्नामानः अष्टौ सूरयः संजाताः, तथापि ये वादिचूडामणिश्री धर्मघोष सूरिवरशिष्याचार्यदेवप्रभ लूरिशिष्याः त एव पतत्कर्तृत्वेन ज्ञेयाः । पतश्च प्रकृतप्रकरणस्य प्रारम्भभागावलोकनात् सुनिश्चितमेष ।
एषां सूरीणां सत्तासमयश्च विक्रमार्कीयचतुर्दशतमशताब्धैव । प्राचीनाश्चैते सूरयः श्रीरत्नशेखरसूरिभिः श्राद्धविधौ अक्षतादेनिंर्माल्यत्वस्य केवलपूज्यनामभिरेव दर्शितत्वात् । आदौ चास्य पुस्तकस्यातिमहतो दुर्गमभाष्यमहोदधेरुद्धृत्य पाठधाः गाथा मुद्रिता याः समग्रभाष्यस्य पठनेऽसमर्थानामवश्यं करिष्यन्त्युपकारमित्याशास्ते माणिक्यसागरः १९७९ पौषशुक्लपूर्णिमा.
मंदसोर ( मालवा )
Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 190