Book Title: Vasudevhindi Part 2
Author(s): Sanghdas Gani, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
निवेदनम् ।
इतो वर्षद्वयादर्वाग् वयं वसुदेवहिंडीप्रथमखण्डस्य प्रथममंशं सज्जीकृत्य प्रसिद्धमकार्म । अद्य तस्यैव द्वितीयमंशं प्रकटीकुर्मः । विभागमेनं वयं संवत्सरसमयादपि प्राग विदुषां समक्षं धतुं शक्तिमन्तोऽभूम, किन्तु परिशिष्ट-प्रस्तावना-विषयानुक्रम-शब्दकोशादिभिरलङ्कस्य एनं विभागं विबुधजनकरकमलेषु अर्पणसङ्कल्पोऽस्माकमासीदिति अस्माभिरस्य प्रकाशनमद्य यावद् रुद्धमभूत् । किञ्च प्रस्तावनादीनामस्मिन्नंशे एकत्रीकरणेऽस्यांशस्य प्रमाणमतितरां वर्धते तथा एतद्वन्थप्रस्तावनादीनां सज्जीकरणेऽस्मनिर्धारितकालक्षेपादप्यधिकतरः कालक्षेपः सम्भवीति तावत्समयावधि अस्य विभागस्य मुद्रणकार्यालयान्तः रुन्धनं नास्माकमुचितं प्रति. भाति इति परिशिष्टषट्करलङ्कतमेनं द्वितीयमंशं अष्टमलम्भकादारभ्य उपलभ्यमानापूर्णप्रथमखण्डपर्यन्तं वयं विद्वद्वर्गसेवायामुपदीकुर्महे । सहैवाशास्महे च यत् सर्वेऽपि विद्वांसोऽस्मभ्यं तथाऽऽशिषं ददतु यथा वयमस्य प्रस्तावनादिविभूषितं तृतीयमंशं सत्वरं प्रकाशयितुं शक्नुयाम ।
परिशिष्टानि
विभागस्यास्य प्रान्ते षट् परिशिष्टानि मुद्रितानि वर्तन्ते । तानि चेमानि-आये परिशिष्ट धम्मिल्लस्य वसुदेवस्य च पत्नीनां परिचयः, द्वितीयस्मिन् वसुदेवहिण्डिप्रथमखण्डान्तर्गतानां पद्यानामनुक्रमणिका, तृतीयस्मिन् परिशिष्टे एतद्वन्थान्तर्गतानां विशेषनाम्नामकारादिक्रमेणानुक्रमः, तुर्ये एतदन्तर्गतानां विशेषनाम्नां विभागशोऽनुक्रमणिका, पञ्चमे कथा-चरितोदाहरणादीनामनुक्रमः, षष्ठे च परिशिष्टे चार्चिकादीनां विशिष्ट स्थलानामनुक्रम इति ।
परिशिष्टानामेषां सविशेषः परिचयः प्रस्तावना विषयानुक्रमः शब्दकोष इत्यादिकं सर्वमपि वयं तृतीयस्मिन् विभागे दास्यामः । __ प्रस्तुतेऽस्मिन् विभागे संशोधनसमये आवाभ्यां गुरु-शिष्याभ्यामतीव सावधानीभूय संशोधितेऽप्यवश्यं स्खलनाः काश्चन सञ्जाता भविष्यन्ति तदर्थं वयं क्षमाप्रार्थनापुरस्सरं प्रत्येकमखिलानपि विदुषो विज्ञपयामः यद्-ये महाशयाः अस्माकं तास्ताः सञ्जाताः स्खलनाः सूचयिष्यन्ति ता वयं तृतीयस्मिन् विभागे सादरमुल्लिखिष्याम इति
निवेदकौप्रवर्तकश्रीकान्तिविजयशिष्य-प्रशिष्यौ
मुनी चतुरविजय-पुण्यविजयो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 228