Book Title: Vastusara Ratnapal Charitre
Author(s): Agamoddharak Granthmala
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 17
________________ OS scammed with CamSca श्रीरत्नपाल-10 चरित्रम् DeepeecemenezzO रहस्येवं, पूर्णचन्द्रस्य ईर्षया // 34 // भोश्चन्द्र ! श्रुणु मे वाता, श्रेष्ठी चासौ पिता तव / करोति ते न सम्बन्धं, तत्र किं कारणं 10 वद // 35 / / कान्तिचन्द्रस्य सम्बन्धो, राजचन्द्रगृहे कृतः / देवदत्तस्य लग्नं तु, कृतं महोत्सवेन वै // 36 // सम्बधो विहितोऽन्येषां, क्रियते किं न ते पुनः / चन्द्रो जगाद हे तात् !, पृच्छायां कारणं वद // 37 / / चिन्तेयं मम तातस्य, किं पृच्छति भवान् पुनः। मम कार्ये विलंम्बोऽभूत्, गच्छामि त्वरितञ्च भोः // 38 // प्रोवाच भानुचन्द्रस्ते, लग्नं सो न विधास्यति / चेन्मयि प्रत्ययो न स्यात्, पृच्छेस्त्वं श्रेष्ठिनं निजम् // 39 // अथकदा च स श्रेष्ठी, सान्ध्यं कृत्यं समाप्य च / स्वकुटुम्बं समाहूय, क रोति स्म कथादिकम् // 40 // तस्मिन्नवसरे चन्द्रः, पृच्छति श्रेष्ठिनं प्रति / यौवनस्थस्य मे लग्नं, विधास्यति कदा भवान् // 4aa ? | श्रेष्ठी जगौ न पृष्टोऽयं, विषयस्तु कदा त्वया / अद्यैव पृच्छसि तत्र, किमस्ति कारणं वद // 42 // चन्द्रो बभाण भो तात !, विना लन तु जीवनम् / निरर्थकं भवेन्नून, विवाहः क्रियते ततः // 43 / / श्रेष्ठो जगाद भोश्चन्द्र !, न स्याल्लग्नं धनं विना / तव पावें तु नो द्रव्यं, तस्माद् द्रव्यं समाजय // 44 // पितस्त्वं किं वदस्येवं, देवदतादिभिर्यतः / किं समुपार्जितं द्रव्यं ?, तेषां लग्नं कृतं | त्वया // 45 // एते हि सन्ति मत्पुत्राः, धनञ्जयसुतोऽसि नु। तव लग्नादिकार्याथ, करोमि न धनव्ययम् // 46 // मृतौ ते | पितरौ बाल्ये, मयानुकंपया तदा / सद्मनि त्वं समादाय, पालितो यत्नतः सदा // 47 // पालनेन पिताऽहं तु, जन्मदानेन नो खलु। तस्माद्विवाहकार्याथ, नो यतिष्ये कदाचन // 48 // द्वितीयेऽहनि चन्द्रोऽथ, भानुचन्द्रं व्यजिज्ञपत् / स श्रेष्ठी मम लमं न, करोति द्रविणं विना / / 49 // तस्मात् त्वमेव हे तात !, लमादिकं च कारय / त्वयैव कथितं कार्य, त्वमेव परिसाधय // 50 // बभाषे भानुचन्द्रोऽथ, भवेल्लनं सुखावहम् / जघन्येनापि ते पाचँ, द्विसहस्रं धनं यदि // 51 // उवाच मानचन्द्रोऽथ, पार्श्वे नास्ति कपर्दिका / कथं वार्ता सहस्रस्य, द्वयस्य क्रियते त्वया // 52 / / भानुर्जगौ विना द्रव्य, लग्नादिकं कथं भवेत् / द्वव्यार्जनाय भोचन्द्र, उद्यम कुरु यत्नतः // 53 // चन्द्रः प्राह न जानामि, द्रव्यार्जन कथं भवेत् / ततस्त्वं कथयोपायं, येनाहं स्यां सुखं धनी // 54 // पूर्व सूर्योदयात्वं तु, याहि वनमहर्निशम् / काष्ठभारं समानीय, विक्रीणीथाः पुरे सदा // 55 // लप्स्यसे रुप्यकाध यद्, एवं peococcoomcDORCED

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25