Book Title: Vastusara Ratnapal Charitre
Author(s): Agamoddharak Granthmala
Publisher: Agamoddharak Granthmala
View full book text
________________ StarTea WILT CamSca श्रीरत्नपाल चरित्रम् LOCTODeepen02202Reppeace जाते, पुत्रपुत्र्यादिकं नहि // 205 // अहर्निशं तु चिन्तायां, मे मनो बहुमुह्यति / सन्ततिवर्जिते पल्यौ, कुरुतः कलहं सदा // 206 / / ' गच्छ लक्ष्मीपुरे त्वं तु, लाभचन्द्राभिधान्तिके / श्रेष्ठिनं तत्र गत्वा च, सुखं पृच्छतु लीलया // 207 / / लाभः प्राहागतं | चन्द्र, नाहं सुखी कदाचन / रक्षितं बहुलोकानां, द्रविणं तु गृहे मया // 208 // धनं दत्तं तु लोकानां, व्याजाशया मया मुदा / विद्यते न गृहे किञ्चित्, तेन चिन्तातिवर्तते, // 209 / / भोजनं न मुखे याति, निद्रा दूरे गतास्ति मे / पुत्रादिका न मन्यन्ते, नास्ति सुखलवो मम // 210 // मादृशं तु सुखं चन्द्र !, मा याचस्व कदाचन / गच्छान्यत्र पुरे कश्चित्, पृच्छतु सुखिनं भवान् // 211 // बहूनां धनिनां घृत्तं, ज्ञातमस्ति मया खलु / नैकोऽपि सुखभागू ज्ञातः, ततस्त्वां प्रष्टुमागतः // 211 // वदत्वं स्वसुखं श्रेष्ठिन् , येन स्यां सफलश्रमः / मासद्वये तु युग्मं हि, न्यूनं दिनश्च वर्तते // 213 // गते तत् समये शेष्ठिन् !, देवी दास्यति नो सुखम् / विलम्ब नो सहे यस्मात् , ततः शिघ्र कृपां कुरु // 214 // श्रुत्वा श्रेष्ठी प्रमोदेन, चिन्तयामासिवानिदम् / आद्योऽहं सुखिनां मध्ये, न कोऽपि मादृशो जनः // 215 // चन्द्रं याने समारोप्य, जगौ श्रेष्ठी मुदा तदा / दर्शयामि सुखं मे स्वं, कीदृशोऽई महासुखी // 216 // उर्वी कृत्य निजं हस्तं, गृहादिकमदर्शयत् / सर्वमेतन् ममैवास्ति, पुरेऽन्यदपि वर्तते, // 217 // एवं वाती मिथः कुर्वन् , प्राप श्रेष्ठी गृहं मुदा / तस्य वृक्षान् समीपस्थान् , दर्शयित्वा च सोऽवदत् // 218 // प्रथमां भूमिकां पश्य, सन्त्यत्र वाहनादयः / आरक्षका द्वितीयायां, शस्त्रेण सज्जिताः सदा // 219 // दासीदासास्तृतीयायां, ममाज्ञाधारिणो मुदा / चतुर्थी भोजनार्थं च, वसन्ति भक्तकारकाः // 220 // पञ्चम्यां भूमिकायाञ्च, प्राधूर्णकाः समागताः / सुखपूर्व च तिष्ठन्ति, ताविषे त्रिदशा इव // 221 / / षष्ठयां भूमौ सुताः सर्वे, तिष्ठन्ति सुखशालिनः / ममाज्ञां तु शिरोधायां, मन्यन्ते, गुरुवागिव // 222 // सप्तम्यां भूमिकायाश्च, तोरणादीनि पश्य भोः ! / एषां कान्तिसमुहैश्य, प्रकाशो निशि वर्तते // 223 // सुवर्णमयपल्यंक-चीनाशुंकमसूरकान् / | देवानां दुर्लभान् सर्वान् , पश्य चन्द्र ! मनोहरान् / / 224 // ऋणं कस्यापि मे नास्ति, सुखं गीर्वाणसन्निभम् / तेन त्वमपि याचस्व, | देव्यग्रे मादृशं सुखम् // 225 / / श्रुत्वैतां श्रेष्ठिनो वाती, दृष्ट्वाऽऽवासादिकं तदा / विलक्षवदनश्चन्द्रः, मौनेन स्थितवान् खलु // 226 / /

Page Navigation
1 ... 21 22 23 24 25