Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ५३॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आनुपूर्व्येणेति । आनुपूर्व्येण वृत्तं क्रमेण वृत्तम् ॥ ३३ ॥ ३४ ॥ लङ्घनोद्योगकालिकावस्थां वर्णयति - बाहू इत्यादिना । बाहू संस्तम्भयामास निश्चली चकार । कटयां ससाद शरीरं संचुकोचेत्यर्थः । चरणौ संचुकीच च ॥ ३५ ॥ रामानुबाहू इति । संस्तम्भयामास पर्वतोपरि दृढविम्यासेन निष्पन्दीचकार ।। इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् । तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ ३१ ॥ दुधुवे च स रोमाणि चकम्पे चाचलोपमः । ननाद सुमहानादं सुमहानिव तोयदः ॥ ३२ ॥ आनुपूर्व्येण वृत्तं च लागलं रोमभिश्चितम् । उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥ ३३ ॥ तस्य लाङ्गलमाविद्धमात्तवेगस्य ष्टष्ठतः । ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ ३४ ॥ बाहू संस्तम्भयामास महापरिघसन्निभौ । ससाद च कपिः कट्यां चरणौ संचुकोच च ॥ ३५ ॥ संहृत्य च भुजौ श्रीमान तथैव च शिरोधराम् । तेजस्सत्त्वं तथा वीर्यमाविवेश स वीर्यवान ॥ ३६ ॥ मार्गमालोकयन् दूरादूर्ध्वं प्रणिहितेक्षणः । रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ ३७ ॥ पद्भ्यां दृढ मवस्थानं कृत्वा स कपिकुञ्जरः । निकुञ्ज्य कर्णो हनुमानुत्पतिष्यन् महाबलः । वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ ३८ ॥ यथा राघवनिर्मुक्तश्शरः श्वसनविक्रमः । गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ ३९ ॥ कटयां ससाद कटिप्रदेशे कृशो बभूव चरणौ संचुकोच संकोचयामास च ॥ ३५ ॥ संहृत्येति । संहृत्य संकोच्य ॥ ३६ ॥ रामानु० संहत्येति । वीर्यवान् वीर्यमा विवेशेत्यभिं धानात् पूर्वं विद्यमानमेव वीर्य विशेषतोऽधिष्ठितदानित्यवगम्यते । तेजःसस्वयोरप्येवं द्रष्टव्यम् । तेजः पराभिभवनसामर्थ्यम् । सच्वं बलम् । वीर्यम् आकाशायभिनिष्क्रमणसामर्थ्यम् ॥ ३६ ॥ मार्गमिति । प्राणान् उच्छ्वासरूपान् । प्राणनिरोधो व्योमोत्पतनार्थम् ॥ ३७-३९ ॥ रामानु०-यथेति । राघवशरदृष्टान्तेन स्वस्थाविलम्बितत्वाप्रतिहतत्वामोघत्यादिकं आनुपूर्व्यात वृत्तं लागलं विचिक्षेपेत्यन्वयः ॥ ३३ ॥ आविद्धं सम् ॥ ३४ ॥ बाहू संस्तम्भयामास पर्वतोपरि दृढविन्यासेन निष्पन्दीचकार । ससाद च कपिः कटचाम् इति कायमसारणात कटिमदेशे कृशोऽभूदित्यर्थः । चरणी संचुकोच सङ्कोचधामास ||३५|| तेजः पराभिभवने सामर्थ्यम् । सत्वं बलम् ॥ ३६-४० ॥ For Private And Personal टी. सुं.कां. स० १ ॥३॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 365