________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ५३॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आनुपूर्व्येणेति । आनुपूर्व्येण वृत्तं क्रमेण वृत्तम् ॥ ३३ ॥ ३४ ॥ लङ्घनोद्योगकालिकावस्थां वर्णयति - बाहू इत्यादिना । बाहू संस्तम्भयामास निश्चली चकार । कटयां ससाद शरीरं संचुकोचेत्यर्थः । चरणौ संचुकीच च ॥ ३५ ॥ रामानुबाहू इति । संस्तम्भयामास पर्वतोपरि दृढविम्यासेन निष्पन्दीचकार ।।
इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् । तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ ३१ ॥ दुधुवे च स रोमाणि चकम्पे चाचलोपमः । ननाद सुमहानादं सुमहानिव तोयदः ॥ ३२ ॥ आनुपूर्व्येण वृत्तं च लागलं रोमभिश्चितम् । उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥ ३३ ॥ तस्य लाङ्गलमाविद्धमात्तवेगस्य ष्टष्ठतः । ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ ३४ ॥ बाहू संस्तम्भयामास महापरिघसन्निभौ । ससाद च कपिः कट्यां चरणौ संचुकोच च ॥ ३५ ॥ संहृत्य च भुजौ श्रीमान तथैव च शिरोधराम् । तेजस्सत्त्वं तथा वीर्यमाविवेश स वीर्यवान ॥ ३६ ॥ मार्गमालोकयन् दूरादूर्ध्वं प्रणिहितेक्षणः । रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ ३७ ॥ पद्भ्यां दृढ मवस्थानं कृत्वा स कपिकुञ्जरः । निकुञ्ज्य कर्णो हनुमानुत्पतिष्यन् महाबलः । वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ ३८ ॥ यथा राघवनिर्मुक्तश्शरः श्वसनविक्रमः । गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ ३९ ॥
कटयां ससाद कटिप्रदेशे कृशो बभूव चरणौ संचुकोच संकोचयामास च ॥ ३५ ॥ संहृत्येति । संहृत्य संकोच्य ॥ ३६ ॥ रामानु० संहत्येति । वीर्यवान् वीर्यमा विवेशेत्यभिं धानात् पूर्वं विद्यमानमेव वीर्य विशेषतोऽधिष्ठितदानित्यवगम्यते । तेजःसस्वयोरप्येवं द्रष्टव्यम् । तेजः पराभिभवनसामर्थ्यम् । सच्वं बलम् । वीर्यम् आकाशायभिनिष्क्रमणसामर्थ्यम् ॥ ३६ ॥ मार्गमिति । प्राणान् उच्छ्वासरूपान् । प्राणनिरोधो व्योमोत्पतनार्थम् ॥ ३७-३९ ॥ रामानु०-यथेति । राघवशरदृष्टान्तेन स्वस्थाविलम्बितत्वाप्रतिहतत्वामोघत्यादिकं आनुपूर्व्यात वृत्तं लागलं विचिक्षेपेत्यन्वयः ॥ ३३ ॥ आविद्धं सम् ॥ ३४ ॥ बाहू संस्तम्भयामास पर्वतोपरि दृढविन्यासेन निष्पन्दीचकार । ससाद च कपिः कटचाम् इति कायमसारणात कटिमदेशे कृशोऽभूदित्यर्थः । चरणी संचुकोच सङ्कोचधामास ||३५|| तेजः पराभिभवने सामर्थ्यम् । सत्वं बलम् ॥ ३६-४० ॥
For Private And Personal
टी. सुं.कां.
स० १
॥३॥