________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सचितवान् ॥ ३९ ॥ नहीति । हिशब्दः पादपूरणे ॥४०॥ यदीति । अकृतश्रमः अप्राप्तश्रमः । राक्षसराजानमित्यत्र टजभाव आर्षः । आनयिष्यामि ।। आनेष्यामि ॥ ४१-४४ ॥ समुत्पततीति । तस्मिन् हनुमति वेगात्समुत्पतति सति । नगरोहिणः शैलरुहा वृक्षाः विटपान संहत्य आदाय, समुत्पेतु नहि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम्। अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥४०॥ यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः । बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ ११ ॥ सर्वथा कृतकार्योऽहमेष्यामि सह सीतया। आनयिष्यामि वा लङ्क समुत्पाटय सरावणाम् ॥४२॥ एवमुक्का तु हनुमान् वानरान् वानरोत्तमः ॥४३॥ उत्पपाताथ वेगेन वेगवानविचारयन् । सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ ४४ ॥ समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः । संहृत्य विटपान सर्वान् समुत्पेतुस्समन्ततः॥ ४५ ॥रा मत्तकोयष्टिमकान पाद पान् पुष्पशालिनः। उद्गहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥४६॥ ऊरुवेगोद्धता वृक्षा मुहूर्त कपिमन्वयुः। प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥४७ ॥ तमूरुवेगोन्मथितास्सालाश्चान्ये नगोत्तमाः । अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ४८॥ सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः । हनुमान पर्वताकारो बभूवाद्भुतदर्शनः ॥४९ ॥ सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि।भयादिव महेन्द्रस्य पर्वता वरुणालये ॥५०॥स नाना
कुसुमैः कीर्णः कपिस्साङ्कुरकोरकैः । शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः ॥५१॥ परित्यर्थः ॥ ४५ ॥ संग्रहेणोक्तं विवृणोति-स मत्तेत्यादिना । कोयष्टिभकः कोयष्टिः॥४६ ॥१७॥ तमिति । तमूरुवेगेति पाठः । उरुवेगेन उन्म । थिताः सालाः सालवृक्षाः । अन्ये नगोत्तमाः अन्ये वृक्षश्रेष्ठाः । सैन्याः सेनायां समवेताः पुरुषाः। "सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते " इत्य मरः ॥४८॥४९॥ सारवन्तः स्थिरांशवन्तः । “सारो बले स्थिरांशेच" इत्यमरः ॥५०॥ स नानाकुसुमेरिति । मेघसङ्काशः स कपिरित्यन्वयः । खद्योतः आनयिष्यामि आनेष्यामि ॥ ४१-४४ ॥ समुत्पतति हनूमति समुद्गच्छति सति नगरोहिणः पर्वतस्थवृक्षाः विटपान संहत्य संक्षिप्य, वेगात् समुत्पेतुरित्यर्थः ॥४५-४९ ॥ सारवन्तः गुरुत्वातिशययुक्ताः ॥ ५० ॥५१॥
For Private And Personal