Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.batth.org
Acharya Shri Kalashsagarsur Gyarmandir
वा मकान्वयम् । आसवभाजनं मद्यपात्रम् । पात्राणि भोजनपात्राणि । आर्षभाणि चर्माणि ऋषभचर्मपिनद्धानि खेटकानि । त्सरुः मुष्टिबन्धनम् ॥२३॥ ॥२४॥ कृतेति । कृतकण्ठगुणाः कृतकण्ठम्रजः । क्षीबाः मत्ताः । रक्ताक्षाः मधुपानात् । पुष्कराक्षाः स्वभावत इत्यर्थः ॥ २५ ॥ हारेति । पारिहार्य वलयम् । तस्थुः तस्थुश्च ॥ २६ ॥ दर्शयन्तः प्रयोजयन्तः। महाविद्याम् अणिमाद्यष्टमहासिद्धिम् । विद्याधरमहर्षयः विद्याधराः महर्षय इवेत्युपमित
लेह्यानुच्चावचान भक्ष्यान मांसानि विविधानि च । आर्षभाणि च चर्माणि खगांश्च कनकत्सरून् ॥२४॥ कृतकण्ठ गुणाः क्षीवा रक्तमाल्यानुलेपनाः। रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ २५॥ हारनूपुरकेयूरपारिहार्यधराः स्त्रियः। विस्मितास्सस्मितास्तस्थुराकाशे रमणैस्सह ॥२६॥ दर्शयन्तो महाविद्या विद्याधरमहर्षयः । सहितास्तस्थु राकाशे वीक्षांचक्रुश्च पर्वतम् ॥२७ ॥ शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् । चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥२८॥ एष पर्वतसङ्काशो हनूमान मारुतात्मजः । तितीर्षति महावेगस्समुद्रं मकरालयम्
॥२९॥ रामाथै वानरार्थं च चिकीर्षन कर्म दुष्करम् । समुद्रस्य परं पारं दुष्प्रापं प्रातुमिच्छति ॥ ३०॥ समासः।" उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इत्यनुशासनात् । विद्याधरश्रेष्ठा इत्यर्थः। विद्याधरा महर्षयश्चति द्वन्द्वसमासो न युक्तः, इति विद्याधराः श्रुत्वेत्युपरितनलोके विद्याधराणामेवोपादानात् ॥२७॥ शुश्रुबुरिति । सा पुनरत्राकाशस्थितिः । शुश्रुवुः, विद्याधरा इति शेषः । इति । विद्याधराः श्रुत्वेत्युपसंहारात् ॥२८॥२९॥ रामानु- एष इति । तितीति महावेगमिति पाठे क्रियाविशेषणम् ॥ २९॥ समुद्र तितीपतीत्युक्तम् । तस्य प्रयोजन कथनायोक्तमनुवदति-रामार्थमिति ॥३०-३२॥ आर्षभाणि ऋषभचर्मपिनद्धानि । चर्माणि फलकानि । कनकत्सरून सुवर्णखगमुष्टीन् ॥ २१ ॥ कण्ठगुणाः कण्ठम्रजः। क्षीवा मत्ताः ॥ २५ ॥ हारेति । पारिहार्य वलयः “ आवापकः पारिहार्यः कटकं वलयोऽस्त्रियाम्" इत्यमरः ॥ २६॥ विद्याधरमहर्षयः विद्याधर श्रेष्ठा इत्यर्थः । महाविद्याम् अणिमादिसिद्धिम् ॥ २७॥ शब्द वाक्यम् ॥ २८ ॥ तमेवाह-एष इत्यादि ॥२९॥रामार्थमिति । वानरार्थ तेषां रामकार्ये तथाभिमानात ॥ ३०-३२ ॥
For Private And Personal

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 365