Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 295
________________ 220. . महोपाध्यायश्रीयशोविजयगणिविरचिता [ अष्टमः सर्गः श्रुत्वा गरिष्ठां शिष्टत्वनिष्ठां कानकशेखरीम् / आलोच्य तादृशं धर्म्यमुत्साहं नारवाहनम् // 778 // विमलं विमलस्येन्दुज्योत्स्नावच्च विजृम्भितम् / त्यागं हरिनरेन्द्रस्य, ध्यात्वा विस्मयकारणम् / / 779 // विवेकमकलङ्कस्य, निष्कलङ्क विचिन्त्य च / श्रुत्वा मुनीनां वैराग्यकारणानि च नैकधा // 780 // यदि चित्तं न ते बाले !, विरक्तं भववासतः / ततः कांकटुकप्राया, वर्तसे नात्र संशयः // 781 // इत्थं ह्यबुध्यमाना त्वं, न रोषं गन्तुमर्हसि / वाचाऽगृहीतसङ्केतेत्युच्यमाना बुधैर्जनैः / / 782 // बाले ! मदनमञ्जर्या, दशायां यन्मया सह / भोगास्त्वया विलसिताः, पुण्योदयसमर्पिताः // 783 // भवत्या विस्मृतास्ते किं, यच्च बुद्धा जिनागमे / कुलन्धरान्विता कन्दमुनीन्दोस्तन्न वेत्सि किम् ? // 784|| प्राह यं विमलाचार्यः, केवली प्रकटाक्षरैः / भवप्रपञ्चमनन्तं, न विज्ञातस्त्वया स किम् ? // 785 // तदुक्तमेव संसारविस्तारं प्रत्यपादयम् / अमुना वाग्विलासेन, बुबोधयिषया तव // 786 / / एकरूपोऽपि संसारिजीवोऽहं प्रविनाटितः / संसारे नाटकाकारे, नानाकारैः स्वकर्मणा / / 787 // तदेनमपि चेच्छृत्वा, महाव्यतिकरं मम / न निविण्णाऽसि संसारात् , तत् कुर्मः का प्रतिक्रियाम् / / 788 // नगराण्यन्तरङ्गाणि. यानि ये तेषु भूभुजः / तदेव्यो दश तत्कन्याः, प्रत्येकं तद्गुणाश्च ये // 789 // . दिव्यः क्षान्त्यादिकन्यानां, विवाहो यश्च कीर्तितः / तत्राष्टौ मातरो याश्च, व्युत्पत्त्यर्थं निवेदिताः // 790 // तदेतदखिलं श्रुत्वा, यदि बाले ! न बुद्धयसे / तदा पाषाणभूतायास्तव किं कथ्यतेऽधिकम् // 791 // किं न स्मरसि तन्मुग्धे ! निर्मलाचार्यसन्निधौ / मत्प्रेमपारतन्त्र्याद् यत्, प्रतिपन्नाऽसि संयमम् // 792 // कृत्वा ततस्तपः स्वर्गे, प्राप्ताऽसि सुखसन्ततिम् / इहागता परिभ्रम्य, भूयोऽपि भवचक्रके // 793 // अपार्द्रपुद्गलावर्त, सम्यग्दर्शनदूषणात् / जिनाद्याशातनातच, यद् भ्रान्तोऽहं भवोदधौ / / 794 / / चतुर्दशाऽपि पूर्वाणि, विज्ञाय मदगौरवात् / यच्च भूयो निगोदादौ, गत्वाऽहं दुःखितोऽभवम् / / 795 / / तदप्याकर्ण्य चित्तं ते, नाभूत् किं रसपिच्छलम् / यत् संवेगाङ्करोद्भेद, इहाद्यापि न दृश्यते // 796 // सूक्ष्मबोधेन वाक्यार्थ, मामकीनमवेहिं तत् / बालिके ! मा विलम्बस्व, श्रमं मे सफलीकुरु // 797 // तत्रानुसुन्दरनृपे, वदत्येवं स मूर्छितः / पौण्डरीकः पपातोा , जाता पर्षत् ससंभ्रमा ||798 // श्रीगर्भो व्याकुलीभूतः, शोकं कमलिनी ययौ / आश्वासितोऽनिलैः सोऽथ, प्रबुद्धः पितरं जगौ // 799 // अनुसुन्दरराजोऽयं, स्वस्य पूर्वं त्वदागमात् / वैक्रियं तास्करं रूपं, बिभ्रत् प्रोचे भवभ्रमम् // 800 // अनाख्येयस्ततोऽभून्मे, बुद्धयमानस्य सम्मदः / चैतन्यनिःसहस्याथ, जाता जातिस्मृतिः स्फुटा // 801 // प्राग्भवेऽभूवमस्याहं, मित्रं नाम्ना कुलन्धरः / तदा भवप्रपञ्चोऽस्य, श्रुतो निर्मलसूरितः // 802 / / स एवायमनेनेत्थमाख्यात इति भावनाद् / विरक्तोऽहं भवावासादनुजानीत तेन माम् // 803 / / येन गृह्णाम्यहं दीक्षामनेनैव सहाद्भुताम् / तदाकर्ण्य प्ररुदिता, कमलिन्युप्रदुःखतः / / 804 // प्राह श्रीगर्भराजोऽथ, मा रोदीर्देव्ययं यतः / शुद्धधर्मकरो जातः, स्वप्नस्यैवानुसारतः / / 805 / / तन्नास्य धारणं युक्तमनुवजनमावयोः / घटते किन्तु निर्मिथ्यस्नेहसूचनचञ्चरम् // 806 // बालश्चेत् कुरुते धर्ममेष भोगोर्मिसम्मुखः / स्थातुं न युक्तं तद्भोगोत्तीर्णयोरावयोर्भवे // 807 //

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316