Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 304
________________ प्रलो० 1015-1075 ] वैराग्यरतिः। 221 उपलब्धे हि तत्तत्त्वे, जीवानां मलसम्भवाः / स्वयमेव निवर्तन्ते, मोहिन्यो भेदबुद्धयः // 1046 // नयेषु स्वार्थसत्येषु, मोघेषु परचालने / समशीलं मनो यस्य, स हि सम्यक्त्वभूषितः // 1047|| एको हि भासते रागद्वेषमोहविवर्जितः / सर्वत्र तत्त्वतो देवः, सर्वज्ञः सर्वदर्शनः // 1048 // सकलोऽसौ जगद्भर्ता, सशरीरो निगद्यते / स एव योगिनां ध्येयो, मुक्तावस्थस्तु निष्कलः // 1049 / / इत्थमेकस्वरूपे हि, देवतत्त्वे विनिश्चिते / न स्युर्नानाविधाः शब्दा, बुधानां भेदबुद्धये // 1050 // बुद्धो ब्रह्माऽथवा विष्णुमहेशो वा स उच्यताम् / जिनेश्वरो वा सर्वत्र, भावतोऽर्थो न भिद्यते // 1051 // भजेद् य एव तं ज्ञात्वा, भावात् तस्यैव स प्रभुः / ममास्ति तव नास्तीति, सर्वोऽयं मत्सरभ्रमः // 1052 / / सर्वेषां हि समानोऽसौ, निःशेषक्लेशवर्जितः / दत्ते मोक्षं सुविज्ञातः, पैतृकी कस्य जाह्नवी // 1053 // विभिन्ना अपि पन्थानो, यान्ति नद्य इवाम्बुधौ / कर्मप्रपञ्चनिर्मुक्ते, तत्रैकत्रैव योगिनाम् // 1054 // यैख़तोऽसौ महाभागैः, श्रितश्चाशयशुद्धितः / तेषां निश्चयभाजां स्याद् , विवादः केन हेतुना // 1055 // - - रक्तं द्विष्टं तथा मूढे, मूढास्तं कल्पयन्ति ये / भावना ज्ञानभाजस्तांस्तारयन्ति कृपापराः // 1056 // श्रुतज्ञानाद् विवादः स्यान्मतावेशश्च चिन्तया / माध्यस्थं(थ्यं) भावनाज्ञानात् , सर्वत्र च हितार्थिता // 1057 // तदेकस्तात्त्विको देवः, प्रोक्तस्ते ये भजन्त्यमी / सामान्यतो विशेषाद्वा, योगिनोऽसद्ग्रहोम्झिताः // 1058 // धर्मोऽपि तात्त्विको ह्येकः, शुद्धः शुद्धगुणात्मकः / हेतुः कल्याणमालानां, विज्ञेयो मोक्षकासिभिः // 1059 / / क्षमा-मार्दव-सच्छौच-तपः-संयम-मुक्तयः / सत्य-ब्रह्मार्जव-त्यागा, अमी धर्मगुणा दश // 1060 // विवदन्ते न सद्धर्म, ज्ञात्वतं दशलक्ष गम् / वारयन्ति बुधाः किन्तु, तद्विपर्ययकल्पकम् // 1061 // प्रोक्तस्तदेक एवायं, सद्धर्मः सार्वतान्त्रिकः / एक एव च विज्ञेयो, मोक्षमार्गोऽपि तात्त्विकः // 1062 // सत्त्वं लेश्याविशुद्धिर्वा, शक्तिवर्वीय तथाऽऽऽमनः / इत्यादिशब्दभेदेऽपि, नार्थतः स विभिद्यते // 1063 // अदृष्टं कर्म संस्कारः, पुण्यापुण्ये शुभाशुभे / धर्माधर्मी तथा पाशः, पर्यायाः सुकृताश्रयाः // 1064 // भवन्ति हीयमानेऽस्मिन् , सर्वा भवविपत्तयः / भूतयो वद्रमानेऽस्मिन् , सर्वाः प्रादुर्भवन्ति च // 1065 // इदमेव परे प्राहुश्चतुष्कोटिविशुद्धिमत् / ऐश्वर्यज्ञानवैराग्यधर्मरूपास्तु कोटयः // 1066 // / रजस्तमोभ्यां संछन्नं, सत्त्वं यत्न प्रकाशते / ऐश्वर्यादिगुणास्तेन, जन्तोर्यान्ति विपर्ययम् // 1067 // रजोवशादवैराग्यमनैश्वर्यं तमोवशात् / तमसश्चैव माहात्म्यादज्ञानाधर्मसम्भवः // 1068 // तत् सत्त्वं मलिनीभूतं, हेतुः संसार-दुःखयोः / तदेव निर्मलं वीर्य, कारणं सुख-मोक्षयोः // 1069 / / ध्यानव्रततपो मुख्यास्तल्लाभार्थमिमेऽखिलाः / गीयन्ते हेतवश्चित्रास्तत् तत्त्वं पारमेश्वरम् // 1070 / / ज्ञानं तद्गोचरं श्रेष्ठं, श्रद्धानं च तदाश्रयम् / क्रिया च वृद्धिकृत् तस्य, मोक्षमार्गः स कीर्तितः // 1071 // एतच्च तत्त्वं यैतिं, ध्रुवं तेषां भ्रमः कुतः / केवलं वारयन्तीमे, तत्त्वभ्रष्टं कृपापराः // 1072 // तदेको मोक्षमार्गस्ते, तात्विकः कीर्तितो मया / पूर्णानन्दमयो ज्ञेयो, मोक्षोऽप्येकोऽनया दिशा / / 1073 / / संसिद्धिनिर्वृतिः शान्तिः शिवमक्षरमव्ययम् / अमृतं ब्रह्म निर्वाणं, ध्वनयस्तस्य वाचकाः // 1074 // सर्वकर्मक्षयादेष, सर्वतन्त्रे व्यवस्थितः / ज्ञान-दर्शन-सद्वीर्य-सुखसाम्राज्यलक्षणः // 1075 / /

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316