Book Title: Uvavai Suttam
Author(s): Munichandrasuri
Publisher: Mahavir Jain Vidyalay
View full book text
________________ सूत्र -180-182] योगनिरोधस्वरूपम् 199 स्यादित्याह- 'जहण्णजोगिस्स'त्ति जघन्यमनोयोगवत: 'हेट्ठ'त्ति अधो यो मनोयोग इति गम्यते, जघन्यमनोयोगसमानो यो न भवतीत्यर्थः, मनोयोगश्च-मनोद्रव्याणि तद्व्यापारश्चेति, जघन्यमनोयोगाधोभागवर्तित्वमेव दर्शयन्नाह-'असंखेज्जगुणपरिहीणं'ति असङ्ख्यातगुणेन परिहीणो यः स तथा तं जघन्यमनोयोगस्यासङ्ख्येयभागमात्रं मनोयोगं निरुणद्धि, ततः क्रमेणानया मात्रया समये समये तं निरुन्धानः सर्वमनोयोगं निरुणद्धि, अनुत्तरेणाचिन्त्येन अकरणवीर्येणेति, एतदेवाह-'पढम मणोजोगं निरंभइ'त्ति प्रथम-शेषवागादियोगापेक्षया प्राथम्येनआदितो मनोयोगं निरुणद्धीति उक्तं च -"पज्जत्तमेत्तसन्निस्स जत्तियाई जहन्नजोगिस्स / होति मणोदव्वाइं तव्वावारो य जम्मत्तो // 1 // तदसंखगुणविहीणं समए समए निरंभमाणो सो / मणसो सव्व-निरोहं करे असंखेज्जसमएहिं // 2 // " ति, एवमन्यदपि सूत्रद्वयं नेयम्, 'अजोगयं पाउणइ'त्ति अयोगतां प्राप्नोतीति, 'ईसिं हस्सपंचक्खरुच्चारणद्धाए'त्ति ईसिंतिईषत्स्पृष्टानि हुस्वानि च यानि पञ्चाक्षराणि तेषां यदुच्चारणं तस्य याऽद्धा-कालः सा तथा तस्याम्, इदं चोच्चारणं न विलम्बितं द्रुतं वा, किन्तु मध्यममेव गृह्यते, यत आह "हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति / अच्छइ सेलेसिगओ तत्तियमेतं तओ कालं // 1 // " शैलेशो-मेरुस्तस्येव स्थिरता-साम्याद्याऽवस्था सा शैलेशी अथवा शीलेशः-सर्वसंवररूपचारित्रप्रभुस्तस्येयमवस्था योगनिरोधरूपेति शैलेशी तां प्रतिपद्यते, ततः 'पुव्वरइयगुणसेढीयं च णं'ति पूर्व-शैलेश्यवस्थायाः प्राग् रचिता गुणश्रेणी'क्षपणोपक्रमविशेषरूपा यस्य तत्तथा, गुणश्रेणी चैवं-सामान्यतः किल कर्म बह्वल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय रचयति, यदा तु परिणामविशेषात्तत्र तथैव रचिते कालान्तरवेद्यमल्पं बहु बहुतरं बहुतमं चेत्येवं शीघ्रतरक्षपणाय रचयति तदा सा गुणश्रेणीत्युच्यते, स्थापना चैवं छ 'कम्मं 'ति वेदनीयादिकं भवोपग्राहि 'तीसे सेलेसिमद्धाए'त्ति तस्यां शैलेशीअद्धायां-शैलेशीकाले क्षपयन्निति योगः, एतदेव विशेषेणाह-'असंखेज्जाहिं गुणसेढीहिं'ति असङ्ख्याताभिर्गुणश्रेणीभिः शैलेश्यवस्थाया असङ्ख्यातसमयत्वेन गुणश्रेण्यप्यसङ्ख्यातसमया ततः तस्याः प्रतिसमयभेदकल्पनया असङ्ख्याता गुणश्रेणयो भवन्ति, अतोऽसङ्ख्याताभिः गुणश्रेणीभिरित्युक्तम्, असङ्ख्यातसमयैरिति हृदयम्, 'अणंते कम्मंसे खवयंतो'त्ति अनन्तपुद्गलरूपत्वादनन्तास्तान् 1. मणजोगं - खं. / / 2. पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः / भवन्ति मनोद्रव्याणि तव्यापारश्च, यावन्मात्रः // 1 // तदसङ्ख्यगुणविहीनं समये समये निरुन्धन् स: / मनसः सर्वनिरोधं कुर्यादसङ्ख्यसमयैः // 2 // 3. करेइ अ० खं. // 4. हुस्वाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते / तिष्ठति शैलेशीगतस्तावन्मानं ततः कालं // 1 // 1. शैलेश:खं. / 2. क्षपणापक्र० खं. //

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362