Book Title: Upmiti Bhav Prapanch Katha Part 02 Author(s): Publisher: View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 583 त्पूर्व / यदुतास्ति समस्तवृत्तान्तमन्नानाधार विस्तारमनादिनिधनं भूरिप्रकाराद्भुतभूमिभूतं भवचक्रं नाम नगरं / अतिविस्तीर्णतया च तस्य नगरस्य विद्यन्ते तत्र बहन्यवान्तरपुराणि सन्ति बहुतराः पाटकाः संभवन्ति बहुतमा भवनपतयः संभाव्यन्ते भूयांसि देवकुलानि / मङ्ख्यातीताश्च नानाजातयस्तत्र लोकाः प्रनिवसन्ति। ततो ऽहमेवं वितर्कयामि / यदुत विद्यन्ते तत्र भवचक्रे नगरे बहिरङ्गलोका यैरेष महामोहनरेन्द्रप्रमुखः शत्रुवर्गः स्ववीर्यण विक्षिप्त इति // प्रकर्षः प्राह / माम किमन्तरङ्ग तन्नगरं किं वा बहिरङ्गमिति / विमर्गेनोक्तं / तात न शक्यते तदेकपक्षनिक्षेपेणावधारयितुं यथान्तरङ्ग यदि वा बहिरङ्गमिति / यस्मात्तत्र यथा बहिरङ्गजनास्तथैतेऽपि सर्वेऽन्तरङ्गलोका विद्यन्ते / यतोऽमौषां प्रतिपक्षभूतो ऽसौ सन्तोषस्तत्रैव नगरे श्रयते ततोऽमौभिरनुविद्धं समस्तं नगरं / प्रकर्षणोकं / नन्वमौ अत्र वर्तमानाः कथं तत्र विद्यरन् / विमर्शनोकं / तात योगिनः खल्वेते महामोहराजादयः सर्वेऽप्यन्तरङ्गलोकाः। तस्मादत्रापि दृश्यन्ते तत्रापि वर्तन्ते न कश्चिविरोधः। यतो जानन्ति यथेष्टबहुविधरूपकरणं कुर्वन्ति परपुरप्रवेशं समाचरन्ति चान्तर्धानं पुनः प्रकटौभवन्ति यथेष्टस्थानेषु ततोऽचिन्यमाहात्म्यातिशयाः खल्वेते राजानः / ते यथाकामचारितया कुत्र न विद्येरन् / तस्मादुभयरूपलोकाधारतयोभयरूपमेवैतद्भद्र भवचक्र नगरं / / प्रकर्षणोक / तर्हि यदि तत्र सन्तोषो वर्तते ते चामौषां भूभुजां दर्पोद्दलनकारिणो महात्मानो लोका विद्यन्ते ततो द्रष्टव्यं तनगरं। महन्मे कुढ़हलं / अनुग्रहेण दर्शयतु माम / गच्छावस्तावत्तत्रैव For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 599