Book Title: Triloksar
Author(s): Manoharlal Shastri
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
नर तिर्यग्लोकाधिकारः ।
३३५
सप्ताशीतिः द्वयोः दशोनं सप्तत्रिंशत् सप्तदशसमा लक्षाणि । सप्तषष्ठिः त्रिंशत् सप्तदश सहस्रं द्वादशमायुः बले ॥ ८३१ ॥
सग । बलदेवानामायुः प्रमाणं सप्ताशीतिलक्षवर्षाणि ८७ ततो द्वयोर्दशदशोनं ७७ ल । ६७ ल । ततः सप्तत्रिंशल्लक्षवर्षाणि ३७ ल. सप्तदशलक्षवर्षाणि १७ सप्तषष्टिसहस्रवर्षाणि ६७००० सप्तत्रिंशत्सहस्रवर्षाणि ३७००० सप्तदशसहस्रवर्षाणि १७००० द्वादशशतवर्षाणि १२०० भवंति ॥ ८३१ ॥
अथ वासुदेवादित्रयाणां प्राप्तगतिं गाथाद्वयेनाह; — पढमो सत्तमिमण्णे पण छट्ठी पंचमिं गदो दत्तो । णारायणो चउत्थीं कसिणो तदियं गुरुयपावा ॥ ८३२ ॥ प्रथमः सप्तमीमन्ये पंच षष्ठी पंचमीं गतो दत्तः ।
नारायणः चतुर्थी कृष्णः तृतीयां गुरूपापात् ॥ ८३२ ॥
.
चढ । प्रथमस्त्रिपुष्टस्सप्तमीं पृथिवीं आप, अन्ये पंच षष्ठी पृथ्वीमापुः पुरुषदत्तः पंचमीं पृथ्वीं गतः नारायणः चतुर्थी भूमिमवाप, कृष्णस्तृतीयां भुवं आपत् । एते गुरुपापाः ॥ ८३२ ॥
णिरयं गया पडिरिवो बलदेवा मोक्खमट्ट चरिमो दु । बह्मं कप्पं कि तित्थयरे सोवि सिज्झेहि ॥ ८३३ ॥ निरयं गताः प्रतिरिपवो बलदेवा मोक्षं अष्ट चरमस्तु । ब्रह्म रूपं कृष्णे तीर्थकरे सोपि सेत्स्यति ॥ ८३३ ॥
णिरयं । एतेषां प्रतिरिपवश्च तत्तन्नरकं गताः । अष्टौ बलदेवाः मोक्षं गताः, चरमस्तु पद्मो ब्रह्मकल्पंगतः सोपि कृष्णे तीर्थकरे सति तस्मिन् काले सेत्स्यति सिद्धिं प्राप्स्यति ॥ ८३३ ॥

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442