Book Title: Triloksar
Author(s): Manoharlal Shastri
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 364
________________ नरतिर्यग्लोकाधिकारः। vvv - इदानीमुक्तार्थानां निगमनमाह;एसो सवो भेओ परूविदो बिदियतदियकालेसु । पुव्वं व गहीदव्वो सेसो तुरियादिभोगमही ॥ ८८१ ॥ एषः सर्वो भेदः प्ररूपितः द्वितीयतृतीयकालयोः । पूर्वमिव गृहीतव्यः शेषः तुयादिभोगमही ॥ ८८१ ॥ एसो। एष सर्वोपि भेद उत्सर्पिणीद्वितीयतृतीयकालयोः प्ररूपितः, शेषः चतुर्थादिभोगमहीति पूर्वमिव ग्रहीतव्यः ॥ ८८१ ॥ एवं भरतैरावतक्षेत्रेषूक्तषट्कालान् क्षेत्रांतरे नियमेन योजयितुं गाथात्रयमाह;पढमादो तुरियोत्ति य पढमो कालो अवद्विदो कुरवे । हरिरम्मगे य हेमवदेरण्णवदे विदेहे य ॥ ८८२॥ प्रथमतः तुर्यातं च प्रथमः कालः अवस्थितः कुर्वोः । हरिरम्यके च हैमवद्धैरण्यवतयोः विदेहे च ॥ ८८२ ॥ पढमा । प्रथमकालत आरभ्य चतुर्थकालपर्यंत नियमः कथ्यते । कथं ? तत्र प्रथमः कालो देवोत्तरकुर्वोरवस्थित एव, द्वितीयः कालो हरिरम्यकक्षे. त्रयोरवास्थित एव, तृतीयः कालो हैमवतहैरण्यवतक्षेत्रयोरवस्थित एव, चतुथकालो विदेहे चावस्थित एव ॥ ८८२ ॥ भरह इरावद पण पण मिलेच्छखंडेसु खयरसेढीसु । दुस्समसुसमादीदो अंतोत्तिं य हाणिवड्डीय ॥ ८८३ ॥ भरतःऐरावतः पंच पंच म्लेच्छखंडेषु खचरश्रेणिषु । दुःषमसुषमादितः अंत इति च हानिवृद्धी च ॥८८३ ॥ भरह । भरतैरावतः स्थितः पंचपंचम्लेच्छखंडेषु खचरश्रोणिषु च दुःषमसुषमस्यादितः आरभ्य तस्यैवांतपर्यंत अवसर्पिण्यामायुरादेहनिः स्यात् ।

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442