Book Title: Triloksar
Author(s): Manoharlal Shastri
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
नरतिर्यग्लोकाधिकारः ।
३७९
मेरु । मेरुनगस्य मानुषोत्तरं वर्जयित्वा नरलोकबहिः स्थानां शैलानामवगाधं सहस्र १००० परिमाणं ज्ञातव्यं तदभ्यंतरस्थितानां शेषाणां हिमवदादिशैलानामवगाधः पुनः स्वकीयस्वकीयोदयचतुर्थांशो ज्ञातव्यः । सर्वेषामुदधीनामवगाधं तु सहस्रयोजनं जानीयात् ॥ ९३६ ॥
अनंतरं मानुषोत्तरस्वरूपं गाथात्रयेणाह ;
अंते टंकच्छिण्णो बाहिं कमवडिहाणि कणयणिहो । णदिणिग्गम पहचोद्दसगुहाजुदो माणुसुत्तरगो ॥ ९३७ ॥ अंतः टंकच्छिन्नो बाह्ये क्रमवृद्धिहानिकः कनकनिभः । नदीनिर्गमपथचतुर्दशगुहायुतः मानुषोत्तरः ॥ ९३७ ॥
अंते । अभ्यंतरे टंकछिन्नो बाह्ये शिखरात् क्रमवृद्धि मूलात् महानियुक्तः कनकनिभः नदीनिर्गमपथैश्चतुर्दशगुहाभिर्युतो मानुषोत्तराख्यशैलो
ज्ञातव्यः ॥ ९३७ ॥
मणुसुत्तरुदयभूमुहमिगिवीसं सगसयं सहस्सं च । बावीसहियसहस्सं चउवसिं चउसयं कमसो ॥ ९३८ ॥ मानुषोत्तरोदयभूमुखमेकविंशं सप्तशतं सहस्रं च ।
द्वाविंशाधिकसहस्रं चतुर्विंशतिः चतुःशतं क्रमशः ॥ ९३८ ॥ मणुसु । मानुषोत्तरोदयभूमुखव्यासाः क्रमेण एकविंशतिसप्तशतोत्तरसहस्रयोजनानि १७२१ द्वाविंशत्यधिकसहस्रयोजनानि १०२२ चतुर्विंशत्युतरचतुः शतयोजनानि ४२४ भवंति ॥ ९३८ ॥ तण्णगसिहरे वेदी चावाणं चदुस्सहस्सतुंगजुदा । सोहइ वलयायारा चरणण्णिदकोसवित्थारा ॥ ९३९ ॥ तन्नगशिखरे वेदी चापानां चतुःसहस्रतुंगयुता ।
शोभते वलयाकारा चरणान्वितकोशविस्तारा ॥ ९३९ ॥

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442