Book Title: Triloksar
Author(s): Manoharlal Shastri
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
३८२
त्रिलोकसारे
वजं । वज्र वज्रप्रभ कनकं कनकप्रभं रजतकूटं रजताभं सुप्रभ महाप्रभं अंकं अंकप्रभं मणिकूट मणिप्रभं ॥ ९४५ ॥ रुजगरजगाह हिमवं मंदरमिह चार सिद्धकूडाणि । अत्थंति सेसि कूडे कूडक्खसुरा कदावासा ॥ ९४६ ॥ रुचकरुचकाभे हिमवत् मंदिरमिह चत्वारि सिद्धकूटानि । आसते शेषेषु कूटेषु कूटाख्यसुराः कृतावासाः ॥ ९४६ ॥ रुजग । रुचकं रुचकाम हिमवत् मंदिरं ४ एभ्यः कूटेभ्यः सकाशादन्यानि इह चत्वारि सिद्धकूटानि संति । शेषकूटेषु १६ कूटाख्याः सुराः कुतावासा भूत्वा आसते ॥ ९४६ ॥
इदानीं रुचकोपरिमकूटानि तन्निवासासिनीदेवीस्तत्कृत्यं च त्रयोदशगाथाभिराह;पुवादिसु पुह अड अड अंते चउचारि चारि कूडाणि। रुजगे सव्वभंतरचत्तारि जिणिंदकूडाणि ॥ ९४७ ॥ पूर्वादिषु पृथक् अष्टौ अष्टौ अंतः चतसृषु चत्वारि चत्वारि कूटानि रुचके सर्वाभ्यंतरचत्वारि जिनेंद्रकूटानि ॥ ८४७ ॥ पुष्वा । रुचकगिरौ पूर्वादिषु चतसृषु दिक्षु पृथक् पंक्तिक्रमेणाष्टावष्टौ कूटानि । तेषामभ्यंतरे चतसृषु दिक्षु एकवारं चत्वारि कूटानि । तदभ्यंतरे पुनरप्येकवारं चत्वारि कूटानि तदभ्यंतरे च पुनरप्येकवारं चत्वारि कूटानि ३ एवमभ्यंतरे प्रतिदिशं त्रीणि त्रीणि कूटानि तेषु सर्वाभ्यंतराणि चत्वारि जिनेंद्रकूटानि ॥ ९४७५ कणयं कंचण तवणं सोत्थियकूडं सुभद्दमंजणयं । अंजणमूलं वजं तत्थेदा दिक्कुमारीओ ॥ ९४८॥

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442