Book Title: Triloksar
Author(s): Manoharlal Shastri
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
नरतिर्यग्लोकाधिकारः ।
――――――
अथ तद्विरीणां वर्ण परिमाणं च प्रतिपादयति ;अंजणदहिकणयणिहा चुलसीदिदहेक्कजोयणसहस्सा । वडा वासुदएणय सरिसा बावण्णसेलाओ ॥ ९६८ ॥ अंजनदधिकनकनिभाः चतुरशीतिदशैकयोजनसहस्राः ।
वृत्ताः व्यासोदयेन सदृशाः द्वापंचाशच्छैलाः ॥ ९६८ ॥
३८९
अंजण | अंजनादयस्त्रयः पर्वताः यथासंख्यं अंजनदधिकनकाभाः तेषां प्रमाणं चतुरशीतिसहस्र ८४००० दशसहस्रै १०००० कसहस्र १००० योजनानि । ते च वृत्ताः व्यासोदयेन सदृशाः सर्वे मिलित्वा द्वापंचाशच्छैला ५२ भवंति ॥ ९६८ ॥ इदानीं तद्वापीनां नामानि गाथाद्वयेनाह ; -
गंदा गंदवदी पुण णंदुत्तर णंदिसेण अरविरया । गयवीदसोगविजया वईजयंती जयंती य ॥ ९६९ ॥ नंदा नंदवती पुनः नंदोत्तरा नंदिषेणा अरविरजे । गतवीतशोकाविजयाः वैजयंती जयंती च ॥ ९६९ ॥
णंदा । नंदा नंदवती पुनर्नदोत्तरा नंदिषेणा अरजा विरजा गतशोका वीतशोका विजया वैजयंती जयंती च ॥ ९६९ ॥ अवराजिदा य रम्मा रमणीया सुष्पभा य पुव्वादी । रयणतडा लक्खपमा चरिमा पुण सव्वदोभद्दा ॥ ९७० ॥ अपराजिता च रम्या रमणीया सुप्रभा च पूर्वादितः । रत्नतट्यः लक्षप्रमाः चरमा पुनः सर्वतोभद्रा ॥ ९७० ॥
अवरा | अपराजिता च रम्या रमणीया सुप्रमा च चरमा पुनः सर्वतो भद्राः । एताः सर्वा रत्नतट्यो लक्षयोजनप्रमिताः पूर्वदिग्भागादितो
ज्ञातव्या: ॥ ९७० ॥

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442