Book Title: Triloksar
Author(s): Manoharlal Shastri
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 413
________________ ४०० त्रिलोकसारे मूलग । तत्तरुमूलगतपीठनिषण्णाश्चतुर्दिक्षु चतस्रः सिद्धतरुमूले सिद्धप्रतिमाश्चैत्यतरुमले जिनप्रतिमाः संति । तत्पुरतः पीठे विविधवर्णनका महाकेतवस्तिष्ठति ॥ १००२॥ सोलुदय कोसवित्थडःकणयत्थंभग्गगा हु रयणमया । चित्तवडछत्ततिदया बहुगा जणणयणमणरमणा १००३ षोडशोदयाः क्रोशविस्ताराः कनकस्तंभारगा हि रत्नमयाः । चित्रपटछत्रत्रितया बहुका जननयनमनोरमणाः ॥ १.०३ ॥ सोलुदय । षोडश १६ योजनोदया एककोशविस्ताराः केतूनां कनकस्तंभाः तेषामग्रगा रत्नमया बहुकाः जननयनमनोरमणाश्चित्रपटछत्रत्रया शोभते ॥ १००३॥ तप्पुरदो जिणभवणं तच्चउदिस विविहकुसुम चउ दहगा दसगाढसयदलायदवासा मणिकणयवेदिजुदा॥१००४॥ तत्पुरतः जिनभवनं तच्चतुर्दिा विविधकुसुमाः चत्वारो हृदाः । दशावगाधशतदलायतव्यासाः मणिकनकवेदीयुताः ॥ १००४ ॥ तप्पुर । तद्ध्वजात्पुरतो जिनभवनमस्ति तस्य चतुर्दिक्षु विविधकुसुमा दशयोजनावगाधाः शतयोजनायतास्तदर्ध ५० व्यासा मणिकनकवेदीयुताश्चत्वारो ह्रदाः संति ॥ १००४॥ पुरदो सुरकीडणमणिपासाददु होति वीहिपासदुगे । पण्णुदय दलंवासो तप्पुरदो तोरणं होदि ॥१००५॥ पुरस्तात् सुरक्रीडनमणिमयप्रासादद्वयं भवंति वीथिपार्श्वद्वये । पंचाशदुदयं दलव्यासं तत्पुरतस्तोरणं भवति ॥ १००५ ॥ पुरदो । ततः पुरस्ताद्वीथीपार्श्वद्वये पंचाश ५० योजनोदयं तद्दल २५ व्यासं सुरक्रीडममणिमयप्रासादद्वयं भवति । तस्य पुरस्तोरणं भवति ॥ १००५ ॥

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442