Book Title: Triloksar
Author(s): Manoharlal Shastri
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 401
________________ ૨૮ त्रिलोकसारे ससुगंधः सर्वगंधः अरुणसमुद्रे इति प्रभू द्वौ द्वौ । द्वीपसमुद्रे प्रथमः दक्षिणभागे उत्तरे द्वितीयः ॥ ९६५ ॥ ससुगंध । अरुणसमुद्रे नायको ससुगंधसर्वगंधौ इति द्वीपे समुद्रे व दौ धौ प्रभू भवतः । तत्र दक्षिणभागे प्रथमोक्तः स्यात् उत्तरमागे द्वितीयोक्तः स्यात् ॥ ९६५॥ इदानीं नंदीश्वरद्वीपं सविशेष प्रतिपादयन् तावत्तस्य बलयव्यासमाह;आदीदो खलु अट्ठमणंदीसरदीववलयविक्खंभो। सयसमहियतेवट्ठीकोडी चुलसीदिलक्खा ये ॥ ९६६ ॥ आदितः खलु अष्टमनंदीश्वरद्वीपवलयविष्कंभः । शतसमधिकत्रिषष्ठिकोटिः चतुरशीतिलक्षश्च ॥ ९६६ ॥ आदीदो । जंबूद्वीपादारभ्याष्टमनंदीश्वरद्वीपवलयविष्कंभः शतसमधिकत्रिषष्टिकोटिचतुरशीतिलक्षयोजनप्रमितः खलु १६३८४००००० एतावत्कथं नंदीश्वरद्वीपसहितप्राक्तनद्वीपसमुद्राणां संख्या ? १५ पदं कृत्वा रूअणाहियपदमित्यादिना कृते सति भवति ॥ ९६६ ॥ अथात्र दिक्चतुष्ठयस्थितानां पर्वतानामाख्यां संख्यामवस्थानं च निरूपयति;-- एक्कचउक्टुंजणदहिमुहरइयरणगा पडिदिसम्हि । मज्झे चउदिसवावीमज्झे तब्बाहिरदुकोणे ॥ ९६७ ॥ एकचतुष्काष्टांजनदधिमुखरतिकरनगाः प्रतिदिशं । मध्ये चतुर्दिवापीमध्ये तबाह्यद्विकोणे ॥ ९६७ ॥ एक्क । प्रतिदिशं मध्ये चतुर्दिवस्थवापीमध्ये तदापीबाह्यदिकोणे चं यथासंख्यं एक चतुः ४ काष्टसंख्याकाः अंजनदधिमुखरतिकराख्याः नगा नंदीश्वरद्वीपे ज्ञातव्याः ॥ ९६७ ॥

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442