SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । ३७९ मेरु । मेरुनगस्य मानुषोत्तरं वर्जयित्वा नरलोकबहिः स्थानां शैलानामवगाधं सहस्र १००० परिमाणं ज्ञातव्यं तदभ्यंतरस्थितानां शेषाणां हिमवदादिशैलानामवगाधः पुनः स्वकीयस्वकीयोदयचतुर्थांशो ज्ञातव्यः । सर्वेषामुदधीनामवगाधं तु सहस्रयोजनं जानीयात् ॥ ९३६ ॥ अनंतरं मानुषोत्तरस्वरूपं गाथात्रयेणाह ; अंते टंकच्छिण्णो बाहिं कमवडिहाणि कणयणिहो । णदिणिग्गम पहचोद्दसगुहाजुदो माणुसुत्तरगो ॥ ९३७ ॥ अंतः टंकच्छिन्नो बाह्ये क्रमवृद्धिहानिकः कनकनिभः । नदीनिर्गमपथचतुर्दशगुहायुतः मानुषोत्तरः ॥ ९३७ ॥ अंते । अभ्यंतरे टंकछिन्नो बाह्ये शिखरात् क्रमवृद्धि मूलात् महानियुक्तः कनकनिभः नदीनिर्गमपथैश्चतुर्दशगुहाभिर्युतो मानुषोत्तराख्यशैलो ज्ञातव्यः ॥ ९३७ ॥ मणुसुत्तरुदयभूमुहमिगिवीसं सगसयं सहस्सं च । बावीसहियसहस्सं चउवसिं चउसयं कमसो ॥ ९३८ ॥ मानुषोत्तरोदयभूमुखमेकविंशं सप्तशतं सहस्रं च । द्वाविंशाधिकसहस्रं चतुर्विंशतिः चतुःशतं क्रमशः ॥ ९३८ ॥ मणुसु । मानुषोत्तरोदयभूमुखव्यासाः क्रमेण एकविंशतिसप्तशतोत्तरसहस्रयोजनानि १७२१ द्वाविंशत्यधिकसहस्रयोजनानि १०२२ चतुर्विंशत्युतरचतुः शतयोजनानि ४२४ भवंति ॥ ९३८ ॥ तण्णगसिहरे वेदी चावाणं चदुस्सहस्सतुंगजुदा । सोहइ वलयायारा चरणण्णिदकोसवित्थारा ॥ ९३९ ॥ तन्नगशिखरे वेदी चापानां चतुःसहस्रतुंगयुता । शोभते वलयाकारा चरणान्वितकोशविस्तारा ॥ ९३९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy