________________
३८०
त्रिलोकसारे
तण्णग । तन्मानुषोत्तरनगस्य शिखरे चापानां चतुःसहस्रतुंगयुता चतुर्थीशान्वितकोशविस्तारा २५०० वलयाकारा वेदी शोभते ॥ ९३९ ॥
अथात्र स्थितानि कूटानि कथयति;णइरिदिवायव्वदिसं वजिय छस्सुवि दिसासु कूडाणि । तियतियमावलियाए ताणभंतरदिसासु चउवसई९४०
नैऋती वायव्यदिशं वर्जयित्वा षट्स्वपि दिशासु कूटानि । त्रिकत्रिकमावल्या तेषामभ्यंतरदिशासु चतुष्कवसत्यः ॥ ९४०॥
णइ । नैऋती वायवीयं च दिशं वर्जयित्वा षट्स्वपि दिशासु पंक्तिक्रमेण त्रीणि त्रीणि कूटानि संति । तेषामभ्यंतरदिशासु चतुरस्रा वसत्यः संति ॥ ९४०॥
अथ तत्कूटवासिदेवानाह;अग्गीसाणछकूडे गरुडकुमारा वसंति सेसे दु । दिग्गयबारसकूडे सुवण्णकुलदिक्कुमारीओ ॥ ९४१ ॥
अग्नीशानषट्कूटे गरुडकुमारा वसंति शेषेषु तु । दिग्गतद्वादशकूटेषु सुवर्णकुलदिक्कुमार्यः ॥ ९४१ ॥
अग्गी । आग्नेय्यैशानदिक्थेषु षट्सु कूटेषु गरुडकुमारा वसंति । शेषेषु पुनर्दिग्गतद्वादशकूटेषु सुपर्णकुलदिक्कुमार्यो वसंति ॥ ९४१ ॥
अथ मानुषोत्तरस्य स्थानादिकमाह;पणदाललक्खमाणुसखेत्तं परिवढिऊण सो होदि । उदयचउत्थोगाढो पुक्खरबिदियद्धपढमम्हि ॥ ९४२ पंचचत्वारिंशल्लक्षमानुषक्षेत्रं परिवेष्टय स भवति । उदयचतुर्थावगाधः पुष्करद्वितीयार्धप्रथमे ॥ ९४२ ॥