________________
नरतिर्यग्लोकाधिकारः ।
३८१
पण । पंचोत्तरचत्वारिंशल्लक्षयोजन ४५००००० प्रमितमानुषक्षेत्रं परिवष्ट्य पुष्करद्वीपद्वितीयार्धस्य प्रथमभागे स मानुषोत्तरो भवति । तस्यावगाधः उदयचतुर्थाशः ४३०४ स्यात् ॥ ९४२॥ __ अथ कुंडलरुचकाचलयोरुदयादित्रयमाह;कुंडलगो दसगुणिओ पणसदरिसहस्स तुंगओ रुजगे। चउरासीदिसहस्सा सव्वत्थुभयं सुवण्णमयं ॥ ९४३॥
कुंडलगौ दशगुणितौ पंचसप्ततिसहस्रं तुंगो रुचके । ' चतुरशीतिसहस्राणि सर्वत्रोभयौ सुवर्णमयौ ॥ ९४३ ॥
कुंडल । मानुषोत्तरभूमुखव्यासात् कुंडलपर्वतस्य भूमुखव्यासौ दशगुणितौ भू १०२२० मुख ४२४० तत्तुंगस्तु पंचसप्ततिसहस्रयोजनानि ७५००० रुचके सर्वत्र उदये व्यासे च चतुरशीतिसहस्रयोजनानि ८४००० उभयौ कुंडलरुचकौ सुवर्णमयौ स्यातां ॥ ९४३॥ . ___ सांप्रतं कुंडलस्योपरिमकूटानि गाथात्रयेणाह;चउ चउ कूडा पडिदिसमिह कुंडलपवदस्स सिहरिम्मि ताणभंतरदिग्गय चत्तारि जिणिंदकूडाणि ॥ ९४४ ॥.
चत्वारि चत्वारि कूटानि प्रतिदिशमिह कुंडलपर्वतस्य शिखरे । तेषामभ्यंतरदिग्गतानि चत्वारि जिनेंद्रकूटानि ।।९४४ ॥
चउ । इह कुंडलपर्वतस्य शिखरे प्रतिदिशं चत्वारि ४ चत्वारि ४. कूटानि । तेषामभ्यंतरदिग्गतानि चत्वारि ४ जिनेंद्रकूटानि ॥ ९४४ ॥ वज्जं तप्पह कणयं कणयप्पह रजदकूड रजदाहं । सुमहप्पह अंकंकप्पह मणिकूडं च मणिपहयं ॥९४५॥ वज्रं तत्प्रभं कनकं कनकप्रभं रजतकूटं रजताभं । सुमहप्रभं अंकमंकप्रभं मणिकूटं च मणिप्रभं ॥ ९४५ ॥