________________
३७८
त्रिलोकसारे
च्छति, पुनस्तत्तवृद्धिक्षेत्रे तत्तन्मध्यायामेषु प्रक्षिप्ते तत्तद्वाह्यायामा. आगच्छति ॥ ९३३ ॥ अथ धातकीखंडपुष्करद्वीपयोः किंचिद्विशेषस्वरूपं गाथाद्वयेन;धादइपुक्खरदीवा धादइपुक्खरतरूहि संजुत्ता । तेसिं च वण्णणा पुण जंबूदुमवण्णणं व हवे ॥९३४ ॥
धातकीपुष्करद्वीपौ धातकीपुष्करतरुभ्यां संयुक्तौ । तयोः च वर्णना पुनः जंबुद्रुमवर्णना इव भवेत् ॥ ९३४ ॥ धादइ । धातकीखंडपुष्करद्वीपौ धातकीपुष्करतरुभ्यां संयुक्तौ, तयोवृक्ष-- योर्वर्णना पुनर्जबूद्रुमवर्णनावद्भवेत् ॥ ९३४ ॥ धादइगंगारत्तदु हिमसिहरिणगोवरि उजु जादि। णवणभतिणविगि चलणं जंबू व पुक्खरे दुगुणं ॥९३५॥ धातकीगंगारक्ताद्वे हिमशिखरिनगोपरि ऋजु यातः । नवनभस्त्रिनवैकं चलनं जंबू व पुष्करे द्विगुणं ॥ ९३५ ॥
धादइ । धातकीखंडस्थगंगासिंधू रक्तारक्तोदे द्वे नद्यौ यथासंख्यं हिमवच्छिखरिनगयोरुपरि नवनभस्त्रिनवांकोत्तरैकयोजनानि १९३०९ ऋजु यातः चलनादिकं पूनर्जबूद्वीपवत् ज्ञातव्यं । पुष्करद्वीपे पुनर्नगोपरि नदीगमनं एतस्माद्विगुणं ज्ञातव्यं ३८६१८ ॥ ९३५ ॥ एवं नरलोको व्याख्यातः।
इदानी तिर्यग्लोक प्रतिपादयन् तावदुभयत्रापि स्थितानां शैलार्णवानां गाधं बोधयति;-- मेरुणरलोयबाहिरसेलागाढं सहस्सपरिमाणं। सेसाणं सगतुरियं सव्वुवहीणं सहस्सं तु ॥ ९३६ ॥
मेरुनरलोकबाह्यशैलावगाधं सहस्रपरिमाणं । शेषाणां स्वकतुर्यं सर्वोदधीनां सहस्रं तु ॥ ९३६ ॥